________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मेघदूत - पूर्वमेघः ।
स्यात् । आश्वसन्त्य इत्यत्र नुमभावः । यत्र गणकार्य्यस्यानित्वमपेक्ष्यैव स्वरूपसिद्धिस्तत्रैव तदाश्रयणं युक्तम् । नान्यत्रेति नियमात् । उपेक्षेतेति । ईक्ष दर्शने । प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु । वृत्तिर्वर्त्तनजीवने इत्यमरः ॥ ८ ॥
( भाव०) वायुमार्गमुपा रूढं त्वां करकलितालकान्ताः पथिकस्त्रियस्तव प्रियप्रत्यानयनसामर्थ्याविश्वासादाश्वसन्त्यः त्वां सकौतुकं प्रेक्षिष्यन्ते । पराधीनवृत्ति मां विहाय त्वय्युपारू सति विरहिणीं जायां न कोऽप्युपेक्षेत ॥ ८ ॥ निमित्तान्यपि ते शुभानि दृश्यन्त इत्याह
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्वायं नदति मधुरं चातकस्ते सगंधः । गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्त बलाकाः ॥ ९ ॥
(सञ्जी०) मन्दं मन्दमिति ॥ अनुकूलः पवनो वायुस्त्वां मन्दं मन्दम् । अतिमन्दमित्यर्थः॥ अत्र कथं चीप्सायामेव द्विरुक्तिर्निर्वाद्या ॥ " प्रकारे गुणवचनस्य" इत्येतदाश्रयणे तु कर्मधारयवद्भावे ब्लुकि मन्दमन्दमिति स्यात् । तदेवाह वामनः-- " -- " मन्दमन्दमित्यत्र प्रकारार्थे द्विर्भाव" इति ॥ यथा सदृशम् । भाविफलानुरूपमित्यर्थः ॥ "यथा सादृश्ययोग्यत्ववीप्सास्वार्थानतिक्रमे" इति यादवः ॥ नुदति प्रेरयति । अयं सगन्धः सगर्वः । संबन्धीति केचित् ॥ "गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः" इत्युभयत्रापि विश्वः ॥ ते तव वामो वामभागथः । “वास्तु वक्रे रम्ये स्यात्सव्ये वामगतेऽपि च" इति शब्दार्णवे ॥ चातकः पक्षिविशेषश्व मधुरं श्राव्यं नदति व्याहरति ॥ इदं निमित्तद्वयं वर्तते । वर्तिष्यते चापरं निमित्तमित्याहगर्भेति ॥ गर्भः कुक्षिस्थो जन्तुः "गर्भोपकारके ह्यग्नौ मुखे पनसकण्टके । कुक्षौ कुक्षिस्थजन्तौ च" इति यादवः ॥ तस्याधानमुत्पादनं तदेव क्षण उत्सवः । सुखहेतुत्वादिति भावः ॥ “निर्व्यापार स्थितौ कालविशेषोत्सवयोः क्षणः" इत्यमरः ॥ तस्मिन्परिचयादभ्यासाद्धेतोः खे व्योम्नि । आबद्धमालाः । गर्भाधानसुखार्थं त्वत्समीपे बद्धपङ्कय इत्यर्थः ॥ उक्तं च कर्णोदये "गर्भ बलाका दुधतेsयोगान्नाके निबद्धोवलयः समन्ताद्” इति ॥ बलाका बलाकाङ्गनाः नयनसुभगं दृष्टिप्रियं भवन्तं नूनं सत्यं सेविष्यन्ते ॥ अनुकूलमारुतचातकशब्दितबलाकादर्शनानां शुभसूचक शकुनशास्त्रदृष्टं तद्विस्तरभयान्नालेखि ॥ ९ ॥
( चारि० ) साम्प्रतं स्वानुकूलशकुनच्छद्मना त्वरागमनाय जलद प्रोत्साहयति-
मन्दमिति - भो मेघ ! यथानुकूलः पृष्ठिप्रदेशानुगामी पवनो वातस्त्वां भवन्तं मन्दं मन्दं शनैर्नुदति प्रेरयति तथा चोक्तम् । मृदुरनुकूलश्च यदा भवति तदा यातुः सुखावहः कथित इति । तथा सगर्वः साभिमानस्ते तव वामो वामस्थितोऽयं चातको मधुरप्रदीप्तस्वरं यथा तथा नदति शब्दं करोति । नद अव्यक्त शब्दे । उक्तं च, मृगाः पक्षिणश्च यातुर्वामाः कामदा इति । किं च गर्भस्य कुक्षिस्थितस्य जन्तोराधानं धारणं तस्मिन्क्षणे समये परिचयः सङ्गस्तहमादाबद्धा माला याभिस्ता बलाका बिसकण्टिकाः खे गगने नयनयोः सुभगं मनोहरं भवन्तं नूनं निश्चितं सेविध्यन्ते आश्रयिष्यन्ते । पवनश्चेति चकारेण निमित्तान्तरं चातकानुकूल्यं द्योत्यते । द्वितीयश्चकार उक्तसमुच्चयार्थः । नुदतीति वर्त्तमानसामीप्ये लट् । मन्दमन्दमित्येकं पदम् । गर्भोपकारके नौ सुखे पनसकण्टके । कुक्षौ कुक्षिस्थजन्तौ चेति यादत्रः । चातकः स्तोकको staीहः सारङ्गो नभोम्बुप इत्यभिधानचिन्तामणिः ॥ ९ ॥
( भाव० ) अयमेव च ते गन्तुं शुभोsवसरः, यथा ऽयमनकूलः पचनस्त्वां मन्दं मन्दं
For Private And Personal Use Only