________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मेघदने-पूर्वमेघः ।
क्तम् । अलका नामालकेति प्रसिद्धा यक्षेश्वराणां वसतिः स्थानं ते तव गन्तव्या। त्वया गन्तव्येत्यर्थः ॥ "कृत्यानां कर्तरि वा” इति षष्टी ॥ ७॥ (चारि. ) का यौष्माकीना प्रार्थनेत्यपेक्षायामह--
सन्तप्तानामिति । पयो जलं ददातीति पयोदस्तत्सम्बुद्धिः । आतपेन स्मरेण च सन्तप्तानां पीडितानां प्राणिनां त्वं शरणमाश्रयोऽसि भवसि। तत्तरमाटेतोर्धनपतेः कुबेरस्य कोपेन क्रोधेन विश्लेषितस्य वियोजितस्याऽनेन स्वकीयः सन्तापो दर्शितः। मे यक्षस्य प्रियायाः सन्देशं वार्ता हर प्रापय।सा वास्ते तत्स्थानस्य किमभिधानं किं लक्षणमित्याशडयाह-ते तवा. लकाभिधा पुरी नाम नामेति प्रसिद्धौ चाव्ययम् । यक्षेश्वराणां यक्षश्रेष्ठानां वसतिः स्थान गन्तव्या यातव्या। कीदृशी, बहिर्भवं बाह्म बाह्यं च तदुद्यानं कैलासोपवनं तत्र स्थितश्वाली हर ईशश्च तस्य शिरसि सूर्धनि चन्द्रिका चन्द्रातपस्तया धौतानिधवलितानि हाणि गृहाणि यस्याः सा । कैलासस्थस्य हरस्याऽलकोद्यानत्तित्वं केऽप्याहुः । कैलासक्रोडस्थिताया अलकाया बहिनिः सरणप्रदेश उद्यान तत्रत्येत्यनेन स्थानस्य लक्षणमभिहितम् । यक्षेश्वराणामिति बहुवचनेन तत्रत्यानां धनदसाम्यं सूचितम् । त इति कृत्यानां कर्तरि वेति षष्टी ॥ ७॥
( भाव० ) किं च, हे जलद ! त्वं सन्तप्तानां सन्तापनिवारकतया रक्षकोऽसि । भर्तृशापात्कान्ता वियुक्तस्य मे सन्देश हर । तव यक्षाणां निवासभूमिरलकानगरो गन्तव्याऽस्ति । यत्र बाह्योद्याने स्थितस्य हरस्य शिरश्चन्द्रचन्द्रिकया हयाणि प्रकाश्यन्ते ॥७॥ मदर्थ प्रस्थितस्य ते पत्रिकाङ्गनाजनाचासनमानुपङ्गिक फलमित्याहत्वामा पवनपदवीमुद्गृहीतालकान्ताः ।
प्रेक्षिष्यते पथिकवनिताः प्रत्ययादाश्वसत्यः । कः संनद्रे विरहविधुरां त्वय्युपेक्षेत जायां
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८ ॥ (सजी० ) त्वामिति ॥ पवनपदवीमाकाशमारूढं त्वाम् पन्थानं गच्छन्ति ते पथिकाः॥ "पथः कन्" इति ष्कन्प्रत्ययः। तेषां वनिताःप्रोषितभर्तृकाः। प्रत्ययात्प्रियागमनविश्वासात्॥ "प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुपु” इत्यमरः ॥ आश्वसन्त्यो विश्वसिताः ॥ श्वसधातोः शत्रन्तात् "उगितश्च" इति डीप् ॥ तथोद्गृहीतालकान्ता दृष्टिप्रसारार्थमुन्नमय्य ताल. काग्राः सत्यः प्रेक्षिप्यन्ते । अत्युत्कण्ठया वृक्ष्यन्तीत्यर्थः ॥ मदागमनेन पथिकाः कथमागमियन्तीत्यत्राह-तद्यथा--त्वयि संनद्धे व्यापृते सति विरहेण विधुरी कृशां जायां क उपक्षेतानकोजीत्यर्थः । को न स्यात् । स्वतन्त्रस्तु न कोऽप्युपेक्षेतेति भावः ॥ अवार्थान्तरन्यासोऽलंकारः । तदुक्तम्---"कार्यकारणवामान्यविशेषाणां परस्परम् । समर्थनं यत्र सोऽर्थान्तरन्यास उदाइतः ॥” इति लक्षणात् ॥ ८ ॥ (चारिक) तव गमनेन न केवल ममैवाश्वासः किन्त्वन्यस्यापि लोकस्येत्याह
त्वासारूडमिति । भो मेघ ! पथिकानामध्वगानां वनिताः स्त्रियः पवनस्य वातस्य पदवी सरणिर्गगनमारूढं प्राप्तुं त्वां भवन्तं प्रेक्षिप्यन्ते विलोकयिष्यन्ति। कीदृ: । वर्षौ भारः समेष्यन्तीति प्रत्ययो विश्वासस्तस्मादाश्वसन्त्यः। स्वस्थभावं भजन्त्यः । तथोद्गृहीतः उपरिष्टात्कृतः अलकानां चूर्णकुन्तलानां अन्तो अञ्चलो याभिस्ताः । एनमेवार्थ प्रकटयति-त्वयि सन्नद्धे समागते सति विरहेण वियोगेन विधुरां विह्वलां जायां पत्नी क उपक्षेत न गच्छेत् । योऽन्योऽगि पृथग्जनोऽहमिा पराधीना परवशा वृत्ति: वर्त्तनं यस्य स तथाविधो न
For Private And Personal Use Only