________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघदूते-पूर्वमेघः।
संयोगोपधात्" इति की ॥ मुग्धाभिर्मूढाभिः ॥ “मुग्धः सुन्दरमूढयोः” इत्यमरः । सिद्धानां देवयोनिविशेषाणामङ्गनाभिश्चकितं चकितप्रकारं यथा तथा ॥ "प्रकारे गुणवचनस्य” इति द्विर्भावः ॥ दृष्टोत्साहो दृष्टोद्योगः सन् । सरसा आर्द्रा निचुलाः स्थलवेतसा यस्मिस्तस्मात्॥ "वानीरे कविभेदे स्यानिचुलः स्थलवेतसे" इति शब्दार्णवे ॥ अस्मात्स्थानादाश्रमात्पथि नभोमागें दिङ्नागानां दिग्गजानां स्थूलाग्ये हस्ताः करास्तेषामवलेपानाक्षेपान्परिहरन् ॥"हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि" इति । “अवलेपस्तु गर्व स्यात्क्षेपणे दूषणेऽपि च" इति च विश्वः ॥ उदङ्मुखः सन् । अलकाया उदीच्यत्वादित्याशयः ॥ खमाकाशमुत्पतोद्गच्छ । अत्रेदमप्यर्थान्तरं ध्वनयति-रसिको निचुलो नाम महाकविः कालिदासस्य सहाध्यायी परापादितानां कालिदासप्रबन्धदूषणानां परिहर्ता यस्मिन्स्थाने तस्मात्स्थानादङ्मुखो निर्दोषत्वादुन्नतमुखः सन्पथि सारस्वतमागें। दिङ्नागानाम् ॥ पूजायां बहुवचनम् ॥ दिङ्नागा. चार्यस्य कालिदासप्रतिपक्षस्य हस्तावलेपान्हस्तविन्यासपूर्वकाणि दूषणानि परिहरन् । "अवलेपस्तु गवें स्याल्लेपने दृषणेऽपि च" इति विश्वः ॥ अद्वेदिकल्पस्य दिङ्नागाचार्यस्य "शृङ्ग प्राधान्यसान्वोच” इत्यमरः ॥ हरति किंस्विदिति हेतुना सिद्धः सारस्वतसिद्धर्महाकविभिरङ्गनाभिश्च दृष्टोत्साहः सन्खमुत्पतोच्चभवेति स्वप्रबन्धमात्मानं वा प्रति कवेरुक्तिरिति ॥ संसर्गतो दोषगुणा भवन्तीत्येतन्मृषा येन जलाशयेऽपि । स्थित्वानुकूलं निचुलश्चलन्तमात्मानमारक्षति सिन्धुवेगात् ॥” इत्येतच्छ्लोकनिर्माणात्तस्य कवेर्निचुलसंजेत्याहुः ॥१४॥
(चारि० ) अद्वेरिति-भो मेघ ! अस्मात् स्थानात् उदङ्मुखः उत्तराभिमुखः सन् खमा. काशमुत्पत। किं विशिष्टात् । सरसनिचुलात । सरसा अशुष्काः पल्लवपुष्पफलसहिताः निचुलाः हिज्जलाख्यास्तरवो यत्र तत् तस्मात् । किं कुन् । दिङ्नागानां दिग्जानां स्थूलहस्तावलेपान् पीवर शुण्डादण्डसम्पर्कान् पथि परिहरन त्यजन् । किं विशिष्टः इति अमुना प्रकारेण मुग्धसिद्धाङ्गनाभिः मुग्धाः सुन्दयों याः सिद्धाङ्गनास्ताभिश्चकितचकितं साश्चयं यथा स्यात्तथा दृष्टोच्छ्रायः । दृष्ठ आलोकित उच्छ्राय आधिक्यं यस्य स त्वं किं विशिष्टाभिः । उन्मुखीभिः ऊनिनाभिः इति कथं विदिति वितकें । पवनो वायुरद्रः पर्वतस्य शृङ्ग शिखरं हरति किम् । निचुलो हिजलोऽम्बुजः इत्यमरः । निचुलस्तु निचोलेल्या दिधज्जलाख्यमहीरहे इति मेदिनी। स्वित्प्रश्ने च वितकेंचेत्यमरः ।हस्तः करे करिकरे सप्रकोष्ठकरेऽपि चेति मेदिनीकारः। मुग्धः सुन्दर मूढयोरिति विश्वः ॥ १४ ॥
भाव० ) मागें गच्छन्तं त्वां दृष्ट्वा 'पवनः पर्वतशृङ्ग हरति किम्' इति धिया मुग्धसि. द्धागनाः सविस्मयं द्रक्ष्यन्ति । मार्गागतानां दिग्गजानां शुण्डास्फालनानि परिहरन् आई. वेतसबहुलादस्मात् स्थानादुदङ्मुखः सन्नुत्पत ॥ १४ ॥ रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता.
दूल्मीकाग्रात्प्रभवति धनुःखण्डमाखण्डलस्य । येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
बढेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥ ( सञ्जी० ) रत्नेति ॥ रत्नच्छायानां पद्मरागादिमणिप्रभाणां व्यतिकरो मिश्रणमिव प्रेक्ष्य दर्शनीयमाखण्डलस्येन्द्रस्यैतद्धनुः खाडम् ॥ एतदिति हस्तेन निर्देशो विवक्षितः ॥ पुर. स्तादग्रेवल्मीकामाद्वामलूरविवरात् ॥ “वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम्" इत्यमरः॥ प्रभवत्याविर्भवति । येन धनुःखग्डेन ते तव श्यामं वपुः । स्फुरितरुचिनोज्ज्वलकान्तिना
For Private And Personal Use Only