________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४)
श्रीशृङ्गारमण्डनम्.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
............
........
......
....... ॥३४॥
....................
सदयनं भवत्याविवोष्ठं यदहममरेशोऽस्मि चतुरे ! ॥३५।। इति नये करुणामरुणानने ! चरणयोररुणं तव यावकम् । उदयशैलतटेषु शनैः शनैररुणसारथिरेति तथा कुरु ॥३६॥ कान्तस्तेऽयमुपस्थितः सुनयने ! सत्यं सुखान्तोऽद्य मे
युक्तस्ते पतितापहार इह किं तादृग्न याति स्वयम् । यायान्माधव एष ते शुचिपदं ग्रीष्मे वसन्तः कुतो .. यद्देवं सखि! वां तदन्तरपथे मुग्धैव यातास्म्यहम् ॥३७॥ यस्मिन्पुरः प्रणयिनि प्रणते नताङ्गि!
किं साहसं वहसि दुर्वहभारमारात् । __.. ...................
.......... ॥३८॥ प्रसादितायाः प्रणयेन चाटु पटीयसालिङ्गानमिष्टमेव । स्वयंग्रहाश्लेषसुखानि तस्याः कस्याप्यवश्यं स्वरिहानयन्ति॥३९।। पिकेन कामाद्वयमादिशन्ती द्विजेन गीतोपनिषेविनासा। वियोगिता रागभृतेषु हृत्सु सुहृदामिदानी कुरुते श्रुतिस्था । चन्दनोपचितसौरभः शुभ्रः शीतलो जलधिकेलिभिः शनैः। दक्षिणः क्षणमुपेतु मे मुदे वल्लभः सखि ! न नेति मारुतः॥४१॥ पूर्णः कलाकलापेन यापयंस्तापसम्पदम् । तनोतु नयनानन्दं कान्तः किं सखि ! नो शशी ॥४२॥ रसालकुसुमामोदा वासिताशां वरे मधौ। आलिङ्गामि निमग्नास्मि वरमानन्दवारिधौ ॥४३॥ यैरेव शन्बररिपोरपिरोपपुरैगैरीगिरीशयुगलं गतमेकभावम् ।
For Private and Personal Use Only