________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ६ )
श्रीशृङ्गारयमण्डनम्.
क्षुभितदुस्सहसिंहप भवध्वनितभीलुक भिलवधूचयम् । चकित सैरिभपातविनिर्दलच्छरवणं रवणं पतताङ्गणेः ॥ २१ ॥ दरभरद्रुतानिष्पतच्छशब्दकक्षेतरक्ष किरोत्करम् ( ? ) प्रचुरशाकुनिकोत्कटकटिकैः कवलितांवलिताभ्रगत्सव्यकम् ॥ प्रतिथवत्पृथुपार्थधनुष्पतच्छितशिल | मुख भिन्नमृगादनम् । सरवकौरवकार्मुकपत्रिभिः प्रपततां पततां निवहैश्वितम् ||२३|| शशकुलं द्रवतां जविनां शुनां विवरमाशुविशत्विदधद्वपुः । प्रहसमास्यमधाज्जनताव्र जैस्ततरुषा तरुखातनिपातिनाम् ||२४|| कुपितपार्थवृकोदर निध्वनद्धनुरुदारविदारणमार्गणैः । हतगवाशनसत्त्वमभूद्वनं नवधवं वधबन्धनवन्मृगम् ||२५||
अन्यकुलकम् ॥ कुसुमजालकजालकवल्लता मधुपतन्मधुपध्वनिमालिनीः । कुटजवत्कुटजार्जुनेकेतकी स्फुटकदम्बकदम्बकसौरभाः ||२६|| वनपयोऽनपयोषितिपुंसिशं प्रवलयन्वलयंश्च वनावलीः । बहलयन्हल यन्त्रचिकृष्टभूविवरतोवरतोषधर द्विपम् ||२७|| सततगं ततगन्धमदभ्रमुज्ज गदयंगदयंतमिहाध्वगान् । सुरततां तततांतर निवृतीर्मदबलादवलाः परिलालयन् ||२८|| अथ कुरुप्रभवानपि पाण्डवान्हरिदधीश्वरशस्यपराक्रमान् । वनविहारजघर्म जल कुलान्मपवनः पवनः स्म निषेवते ||२९|| हृप्यद्रोण शिखण्डिशल्पशकुर्निमोत्कृष्टनाशे कुरू
क्षेत्रे वा विपिने महानगरभृद्भीष्मान्तराले ततः । प्रेङ्खत्पत्ररथान्विखण्ड्य विशिखैः खङ्गित्रजांश्रोद्धतानामुर्व हस्तिनापुरममी ते पाण्डवाः कौरवाः ||३०|| श्रीमदन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतेः ।
श्रीमद्वाहडनन्दनस्य दधतः श्रीमण्डनाख्यां कवेः । काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सगुणे
For Private and Personal Use Only