________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली.
(५)
समधुपामधुपातिरजोता नवलतावलतामरुताधुता। सुविटपा विटपानरतापणे वरमणी रमणीव वने वभौ ॥९॥ मघवगोपगणैर्विदधे धरा प्रचुररागभरा सह कान्तया । शिखिकुलं भवितत्य कलापकं व्यतनुताऽतनुताण्डवमुन्मदम् ॥ बहलशाखिकुलं बलवदवानल विपद्दलितं समशिश्वसत् । यदधिभूमितपर्तिमपाछिदनिजवनैर्जवनैः पवनैधितेः ॥११॥ सकलचातकयाचकमण्डलीतशमयंशमयञ्जलवृष्टिभिः । यदकरोत्सुहृदं शिखिमण्डलं धृतमुदं तमुदश्चितताण्डवम् ॥१२॥ सकलसस्यकुलान्युदलासयज्जनपदं न पदं न मुदां दधत् । त्रिभुवनोपकृतिः स कृती ततः स्मरसितं रसितं विदधे घनः ।।
अन्तकुलकम् ।। ऋतुरभूद्घनष्टिमयस्तदा सुखकरः कुरुपाण्डुतनूभुवाम् । विदधर्ता दधतां सशरं धनुः समृगया मृगयानसमुद्धताः ॥१४॥ प्रविविशे विविशेषकुलाऽकुला विसभरैः समरैश्च वनस्थली । नृपसुतैः पशुतैःण्यभयंकरी घनलतानलतालतता ततः ।।१५।। सहरिणा हरिणाश्रितगहरा वनवराहवराहवकृद्भटा । शशवरैः शवरैश्च धनुर्द्धरैर्धनगजैगजैश्च विराजिता ॥ १६ ॥
युग्मम् ॥ कल लोद्धरधीरधनुर्धरैर्विशिखविद्धवराहपथानुगैः । सरभसक्षुभितोग्रमृगद्रवद्वरवयोरवयोग्यभवद्दवः ॥१७॥ तृणचरेषु वसत्सु बनान्तरे मृगगणेष्विव सत्सु दधत्स्वलम् । प्रविगतस्पृहतामतिघातकाः पिशुनकाः शुनकाः स्म भषन्ति च ॥ द्रुतमजिग्रहदात्मकुलोद्भवान्मृगगणो हरिणान्मृगघातिनः । खल इव स्वजनानहितान्सतोजनिरये निरये पतनेच्छया ॥१९॥ मधुरवागिव सज्जनमण्डलं खलजनः सरलं मलिनान्तरः। मृगमहन्मृगयुर्मूदुवंशजस्वनरसे नरसेवित आदृतम् ॥२०॥
For Private and Personal Use Only