SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५२) श्रीकाव्यमण्डनम् अचकथदथ पाण्डवी सुचेष्टा सपदि च दक्षिणतः पुरः प्रवेशे। सुयुवतिवरलाभमेषा बहलमुदां निलयेभ्य ईश्वरेभ्यः ॥४९॥ अतिसुभगरवो बभूव तेषां परुषरवोऽपि रासभो यत् । भजति हि गुणवत्त्वमेव कश्चित्समयमुपेत्य गुणोज्झितोऽपि जन्मी पुरमपि विविशुर्विशामधीशा मणिमयतोरणहैमहर्म्यहृयाम् । निजरुचिविजिताममरावतीका सुररमणीरमणीयरुपरामाम् ५१।। सुघटितघटसङ्घसङ्घलां तामजिरगतातिविशालशालरभ्याम् । अभिनवतरकुम्भकारशालीमाधिवसति स्म च पञ्च पाण्डवीयम्।। ताम्ररोचिरतितप्तमुपानं हेमगोलमिव कालकलादः। अक्षिपजलनिधौ रविविम्ब निर्मिमासुरथ विश्वविभूषाम् ॥५३॥ पूर्वांचलेन्द्रशिखरेऽप्युदयं गतोऽसा___ वस्ताचलेन्द्रशिखरेऽस्तमियाय चार्कः । अत्युच्चकैः खलु पदे महतां प्रतिष्ठा - प्रायेण तुङ्गतर एव भवेद्विनाशः ॥५४॥ परिवृतकटकावनिर्वनान्तैः शिखरगताधिकशोणभानुबिम्बः । गजमुखमधि मूर्धना गजौघं चरमगिरिः स जहास नीलभासम् अथ तिमिरमझम्भत प्रभूतं सरजविकारचयैः समं समन्तात् । उपवनमिव मन्मथस्य राज्ञश्चलितसवेपथुबन्धकसिमूहम् ॥५६॥ विषयिणि तरुणत्वमायुरथं मधुरगिरं वनितां पुरो निधाय । अतिविततमस्तमालवन्यां हरति च दुर्द्धरमार धूर्त एषः।५७ अबिभरुरुडुमण्डलानि नाके मर्दनभटाहितास्त्रलक्षलक्ष्मीम् । त्रिभुवनविजयोद्यतेऽसमेषौ पिदधदिवार्कमभाद्रजस्तमिस्रम् :५८॥ न सुरभिसुमनस्सु मानसं मे ज्वलति तनुर्धनचन्दनोक्षितापि । रमयति रजनी न दीर्घयामा प्रियसखि! मामसमेषुवाणवाधाम् निदधतमपराधमात्मसंस्थं मयि च मृषा परुषाक्षरं वदन्तम् । द्रततरमुपगम्य सामवादैरनुनय नाथमिमं निपत्य चाट्योः For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy