________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (५१) इति च श्रूयते लाक्षागृहे दग्धा हि पाण्डवाः । धर्माद्या धर्मधुर्यास्ते कौरवैः क्रूरकर्मभिः ॥३६॥ त्वत्कृपातः कथंचिच्च जीवेयुर्यदि तेऽनघाः । कुतश्चिच्च समेष्यन्ति राधायन्त्रं ततः कृतम् ॥३७॥ असौ गांडीवधन्वैव दुर्भेद्यं भेत्तुमर्हति । प्रासादाद्धि गुरोराधायन्त्रं नान्यस्तु कश्चन ॥३८॥ ततोऽवदद्वासुदेवः सखा गांडीवधन्वनः। जानीहि जीवतो राजन ! धमिष्ठान्माण्डुनन्दान् ॥३९॥ .... मधेव भक्तिप्रवणान्दोर्दण्डोदामविक्रमान् । इहनान्योजयिष्यामि त्वया सह नृपोत्तम !॥४०॥ न कदाचित्कालतोऽपि मद्भक्ता बिभ्रते भयम् । सङ्कटेषु हि सर्वेषु जायद्रक्षामि तानहम् ॥४१॥ इति श्रुत्वा हरेर्वाचं द्रपदो हर्षनिर्भरः । अतत्वरत्सभामध्यं प्रापयिष्यन्सुतां सुतम् ॥४२॥ अबोचदिति भूपालान्धृष्टद्युम्नाभिधत्स्व च । बरियति स एनां यो राधायन्त्रं विभेत्स्यति ॥४३॥ अथोत्थाय महाबाहुर्धष्टान्नोऽभ्यधावत्तमाम् । इत्थं शगुत भूपालाः सर्वे यूयं महाभुजाः ॥४४॥ उर्वबाहुरधोदृष्टिभ्रमन्ती शफरीं स्यात् । राधायन्त्रे स्थितां नेत्रे यो भेत्स्यति धनुर्धरः ॥४५।।
लापूर्णे कटाहेऽस्मिन्त्राणेन प्रतिविम्बिताम् । . राज्ञसेन्याः स भर्ताऽस्या भविष्यति न संशयः ॥४६॥ कुलकम् श्री विधया सभा भूयः सर्वैरपि नरेश्वरैः । मौहत्तर्मुहूत हि कथिते शुभलक्षणे ॥४७॥ अथ नरवरवीरपुङ्गवास्ते द्रुपदनरेन्द्रपुरीमुपेयिवांसः । पटुपवनविधूतकेतुदंभाचरितमिमानृपतीनिहावयन्तीम् ॥४८॥
For Private and Personal Use Only