________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीकाव्यमण्डनम्. पूरुषोत्तममतूतुषत्तदा कौतुर्कनवनवैश्च मेघवत् । भूरिहेमपटरत्नवार्षिणं गायनेषु च वराङ्गनासु च ॥२४॥ राजराजिरपराधशिश्रिणचीनरत्नवरवाजिसञ्चयान् । गीतमुख्यवहुसत्कलाविदां कोटिशोरसरहस्यवेदिनी ॥२५॥ वन्दिभिश्च विरुदावली हरेः प्राकृतविरचिता स पठ्यते । नकदानवकुलान्तकारियो लभ्यते स्म हयरत्नसञ्चयः ॥२६॥ महानुलूलुध्वनिराविरासीत्प्रहर्षभाजी वदनाजनानाम् । समं समास्फालितहस्ततालपोत्तालनादेश्वकिताश्च वृन्दैः ॥२७॥ सुरभिसुरभिपुष्पैर्गन्धवद्रव्यसङ्घ
रगुरुमृगमदश्रीखण्डकपूरमुख्यैः । परिमलबहलोऽभूद्भूमिभागः सभाया
विततमधुमहानां भूभुजां साङ्गनानाम् ।।२८॥ विचित्रचीनोत्तमहेमभूषणैर्विराजमाना नरराजमण्डली । वसन्तमासाद्य रराज निर्भरं प्रसूनसझेरिव काननस्थली ॥२९॥ सहाप्सरोभिर्विवुधा इवामी विहारयन्तः सुतरां विरेजुः । बाराङ्गनाभिर्वरविभ्रमाभिः परशताभिर्नरदेवसङ्काः ॥३०॥ अथ द्रुपद आह स्म देवदेवं जनाईम् । चिन्ताकुलान्तःकरणः प्रश्रयानत इत्यसौ ॥३१॥ सर्वज्ञोऽसि जगनाथ ! कृष्ण ! यादवनन्दन ! यदहं वक्तुकामोऽस्मि श्रूयतां तद्वचो मम ॥३२॥ मया दुचाऽनवद्याङ्गी द्रौपदीयं सुमध्यमा। पार्थाय सत्यया वाचा पूर्व विक्रमशालिने ॥३३॥ एक एव विजेतुं यो नृपसङ्घान्प्रगल्भते करीन्द्रानिव पारीन्द्रो नक्षत्राणीव भास्करः ॥३४॥ भवानिव बलौदृक्तदानवेन्द्रान्मदोद्धतान । तं विना फल्गुन फल्गु मन्ये सैन्यं महीभुजाम् ॥३५॥
For Private and Personal Use Only