________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८) श्रीकाव्यमण्डनम्. पुनर्भवलेशविनाशदक्षदाक्षायणीवल्लभलीनचित्तैः।। पर शतैः पाशुपतैः प्रशान्तस्वान्तः सुनिश्रेयसमाप्तुकामः॥१४॥
आदिकुलकम् ।। उद्दाममानन्दभरं दधानास्ते पाण्डवाः सत्कविपुङ्गवास्ताम् । काशी समीक्ष्य श्रुतिशास्त्रशस्तां न्यष्टाविषुर्विष्टपनाथमित्यम् ।। अस्त्राक्षीद्भगवानपारकरुणः काशी स भूतेश्वरो
मुक्तिक्षेत्रकिरीटमण्डनमणि देवर्षिभिः सविताम् । यस्यां सन्मणिकर्णिकाऽमलजले त्यक्त्वाऽङ्गिनः स्वास्तनः
कैवल्यं सममेव यान्ति विषयासक्ता विरक्ता अपि ॥१६॥ कैश्यं शैवलजालवच्छशिकला व्यावृत्तमत्सीव सा
पमालीव ललकपालवलयं तनालबद्भोगिनः । यमूर्धन्यघसङ्घवस्मरसरित्तीरे श्रियं भेजिरे
संसारज्वरभारभञ्जनपदुः स स्तात्सतां सम्पदे ॥१७॥ भालाक्षिज्वलदाशुशुक्षणि भुजभ्राजिष्णुमास्वत्फणि
स्फारस्फोरकरस्फुरत्प्रहरणिव्याश्लिष्टशृङ्गारिणि । मूर्धासङ्गिमहातरङ्गिणि गलव्यालम्बमानोल्लल
न्मुण्डश्रेणि तदद्भुतं हृदि दधे रूपं परं शाङ्करम् ॥१८॥ उन्मीलद्विषयावलिच्छलमिलद्वातायुतृष्णाजले ___ शोकोद्दामदवाग्निदीपिनि भवारण्ये भयावद्रुतम् । बद्धं वागुरया स्वमातृतनयभ्रातृप्रियाकारया
दृप्यदर्पकलुब्धकेन विधुरं मां वध्यमानं मृगम् ॥१९।। रोचिष्णुद्विपचर्मणे रसलसद्गौरीस्फुरन्नर्मणे
मूलोन्मूलितकर्मणे प्रणमतां स्फारीभवच्छणे। रक्षार्थ धृतवर्मगे प्रहरणैर्भिन्नद्विषन्मर्मणे
भीतानां धनवर्मणे मम नमस्तस्मै परब्रह्मणे ॥२०॥ मुअन्ति श्रुतयन्तवोरुमहिमाम्भोधिभ्रमभ्रान्तयः
मान्योन्य कलहायते ह्यविदुषीत्वाद्वेशषड्दर्शनी ।
For Private and Personal Use Only