SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं मेयत्वादीनां सकलवस्तुनिष्ठत्वेन अत्यन्ताभावप्रतियोगित्वस्यैवानुपपत्तेरनित्यनिष्ठात्यन्ताभावप्रतियोगित्वस्य सुतरामभावात् । अनित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणमित्युक्ते च स्पष्ट एव व्याघात: स्यात् । अतः शब्देतरेति पदं ज्ञेयम् । शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणमित्युक्तेऽप्रसिद्धविशेषणत्वम् । नित्यमात्रनिष्ठानां धर्माणांशब्देतरानित्यनिष्ठात्यन्ताभवप्रतियोगित्वेन तद्रहितत्वानुपपत्तेः । एवं शब्दमात्रनिष्ठानां शब्दनित्यमात्रनिष्ठानां च । एतद्धटव्यतिरिक्तशब्देतरानित्याश्च पक्षतुल्या इति न तन्मात्रनिष्ठेषु साध्यप्रसिद्धिः । अतोऽप्रसिद्ध विशेषणतानिरासार्थ शब्देतरानित्यनिष्ठग्रहणम् । यद्यपि नित्यमात्रनिष्ठा धर्माः शब्देतरानित्यनिष्टात्यन्ताभावप्रतियोगिनः, तथापि शब्देतरानित्यनिष्ठत्वे सति यत् शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वं, तद्रहिता एवेति नित्यमात्रनिष्ठेषु साध्यप्रसिद्धिः। एवं शब्दत्वादिष्वपि शब्देतरानित्यनिष्टशब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितः शब्देतरानित्यनिष्ठत्वरहितो वा स्यात्, शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितो वा । आद्यः पक्षे व्याहतः । द्विती. यस्य तु अनित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तद्यैव स्यात्, यद्यनित्यः शब्दः स्यात् । गगनादीनां नित्यत्वात् । शब्देतरानित्यमात्रवृत्तेश्च शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वानुपपत्तेश्च । तेन शब्दानित्यत्वसिद्धिः ॥ २१ ॥ (आनं०)-नित्यपदार्थेषु साध्यसिद्धिमुपपादयति-नित्यमाति। शब्देतानित्यनिष्ठा. त्यन्ताभावप्रतियोगी नित्येषु नास्तीत्यर्थः । एवमिति । शब्दमात्रनिष्टानां शब्देतरानित्यनिष्ठत्वं नास्ति, तथा शब्देऽनित्यमात्रे च निष्टानामपि तन्नास्तीत्यर्थः । शब्देतरानित्यनिष्ठधर्माणामनित्यनिष्ठात्यन्ताभावप्रतियोगित्वं शब्दानित्यत्वसिद्धेः प्राग्दुरधिगममित्याह-एतद्धटव्यतिरिक्तेति । नित्यमात्रनिष्ठानामनित्यनिष्ठात्यन्ताभावप्रतियोगित्वाच्छब्देतरानित्यनिष्टग्रहणेऽपि न साध्यसिद्धिरत्राहयद्यपीति । कथं शब्दतदितरनित्येषु साध्यसिद्धिरत्राह-एवमिति । शब्दत्वादिषु शब्दमात्रधर्मेषु शब्देतरानित्यनिष्ठत्वाभावाच्छब्दे साध्यसिद्धिः । शब्देतरानित्यानां पक्षतुल्यत्वात्तत्र संदेहो न दोषः इत्यर्थः । घटस्यैवंभूतधर्माधिकरणत्वेऽपि कथं शब्दानित्यत्वमत्राह-शब्देतरेति । शब्देतरानित्यनिष्ठत्वरहितोऽपि तन्नित्यत्वे सति तनिष्ठात्यन्ताभावप्रतियोगित्वरहितो भवतीत्यर्थः । शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितसिद्धावपि कथं विवक्षितसिद्धिरत्राह-द्वितीयस्येति । आकाशादिनिष्ठात्यन्ताभावप्रतियोगित्वेन किं न स्यादत्राह-गगनादीनामिति । स्तम्भादिनिष्ठात्यन्ताभावप्रतियोगित्वेन तथात्वं स्यादत्राह-शब्देति । शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितस्य तद्वत्वं व्याहतमित्यर्थः । परिशेषसिद्धमाह-तेनेति । . For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy