________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०१
महाविद्याविडम्बनम् ।
सिध्यन्ननित्यनिष्ठत्वरहितो न सिध्यति । तेन शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितः सिध्येत् । स चानित्यनिष्ठात्यन्ताभावप्रतियोगी सिध्यन्ननित्यत्वं शब्दस्य गमयति । शब्देतरानित्यमात्रनिष्ठस्य तन्मात्रनिष्ठात्यन्ताभावप्रतियोगित्वादिति भावः । व्याचष्टे-ये शब्देतरेति । कृत्यमाहअनित्यनिष्ठेति ।
२१ ( भुवन०)-अयं घटः शन्देतरानित्यनिष्ठेत्यादि । शब्दादितरे येऽनित्याः शब्देतरानित्याः, शब्देतरानित्येषु निष्ठा येषां ते शब्देतरानित्यनिष्ठाः । शब्दादितरे येऽनित्यास्तनिष्ठश्चासौ अत्यन्ताभावश्च शब्देतरानित्यनिष्ठात्यन्ताभावः । तस्य प्रतियोगिनः शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगिनः । शब्देतरानित्यनिष्ठाश्च ते शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगिनश्च । एवंविधाश्च धर्मा एकैकानित्यनिष्ठाः परस्परं सर्वेऽपि पटत्वस्तम्भवादयो ज्ञेयाः । तेषां भावस्तत्त्वं । तेन रहिताः । शब्दत्वाकाशत्वादयः परस्परत्वविवक्षारहिता घटत्वादयोऽपि च । अनित्यनिष्ठात्यन्ताभावेति । अनित्यनिष्ठश्चासौ अत्यन्ताभावश्च, तस्य प्रतियोगिनः अनित्यनिष्ठात्यन्ताभावप्रतियोगिनः । शब्दे. तरानित्यनिष्ठशब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितश्चासौ अनित्यनिष्ठात्यन्ताभावप्रतियोगी च तस्याश्रयो घट इति विग्रहः । अत्र प्रथम विशेषणविचारणायामाकाशत्वशब्दत्वस्तम्भत्वमेयत्वादयः उपपद्यन्ते । तत्राकाशत्वादयो यद्यपि शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहिता न सन्ति, तथापि शब्देतरानित्यनिष्ठत्वे सति यच्छब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तत्त्वरहिता एवेति । ये च शब्दत्वादयस्तेऽपिच यद्यपि शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहिता न सन्ति, तथापि शब्देतरानित्यनिष्ठत्वे सति यच्छब्देतरानित्यनित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तत्त्वरहिता एव । ये च घटत्वस्तम्भत्वादयस्तेऽपि यद्यपि शब्देतरानित्यनिष्ठाः सन्ति, तथापि शब्देतरानित्यनिष्ठत्वे सति यच्छब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तत्त्वरहिता एव । मेयत्वादयोऽपि शब्देतरानित्यनिष्ठत्वे सति यच्छब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तत्त्वरहिता एवेति ! द्वितीयविशेषणस्यायमर्थः । अनित्यशब्दनिष्ठो योऽत्यन्ताभावस्तस्य प्रतियोगी पूर्वविशेषणविशिष्टश्च यो घटत्वादिर्धर्मस्तदाधारो घट इत्यर्थः। पूर्वविशेषणविशिष्टमपि घटत्वमनित्यनिष्ठात्यन्ताभावप्रतियोगि तदैव स्यात् , यदि शब्दोऽनित्यः स्यात् । गगनादीनां नित्यत्वेनोभयसंमतत्वात् । शब्देतरानित्यपटादिनिष्ठात्यन्ताभावप्रतियो. गित्वे च घटत्वादिधर्मस्य शब्देतरानित्यनिष्ठत्वे सति शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वेन तद्रहितत्वानुपपत्तेः, शब्दस्य चेतरशब्देन पृथक्कृतत्वात्पारिशेष्यादनित्यः शब्द एव स्यादिति भावः । आकाशत्वशब्दत्वादयो घटे व्याघातादेव साधयितुं न शक्यन्ते । प्रमेयत्वादीनां चात्यन्ताभावप्रतियोगित्वमेवाघटमानकं, तेषां सर्वपदार्थनिष्टत्वात् । कुतस्तरामनित्यनिष्ठात्यन्ताभावप्रतियोगित्वमिति । तस्मात्तेषां घटमध्ये साधने निषेधः प्रकट एव । अथाद्यविशेषणं परित्यज्य व्यावृत्तिचिन्तां करोति । अनित्यनिष्ठात्यन्ताभावेत्यादि । एवं च क्रियमाणे घटत्वादिभिः शब्दस्य नित्यत्वरूपार्थान्तरता स्यात् । तन्निवृत्यर्थ शब्देतरानित्येत्यादि । अयमाशयः । यद्यप्यनेन पूर्वविशेषणेनापि च घटत्वादय एवायान्ति, तथाप्युत्तरं विशेषणं यदि पूर्वविशेषणेन सह विचार्यते तदा शब्दस्यानित्यत्वमेव सिध्यति, न तु नित्यत्वम् । अथ द्वितीयविशेषणसाफल्यमाह-शब्देतरानित्यनिष्ठेत्यादि । एवमप्युक्ते मेयत्वादिभिः शब्दस्य नित्यत्वरूपार्थान्तरता तथैवेति तव्यवच्छेदाय अनित्यनिष्ठात्यन्ताभावेत्यादि।
७ महाविद्या०
For Private And Personal Use Only