________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प० १
महाविद्याविडम्बनम् ।
( भुवन०) - अथाद्यं शब्दतरानित्यनिष्ठेतिपदं मुक्त्वा व्यावृत्तिं करोति - शब्देत नित्यनिष्ठात्यन्ताभावप्रतियोगित्वेत्यादि । इत्युक्ते अप्रसिद्ध विशेषणत्वमाह अप्रसिद्ध विशेषणत्वमिति । अस्मिन्विशेषणद्वये विचार्यमाणे एवंविधधर्माणां सपक्षे अनुपपद्यमानत्वमित्यर्थः । कथमप्रसिद्धविशेषणत्वमित्याह – नित्यमात्रनिष्ठधर्माणामित्यादि । नित्यत्वाकाशत्वादयो धर्मा नित्यमात्रनिष्ठास्तेषामित्यर्थः । एवं शब्दमात्रनिष्ठानामिति । शब्दमात्रनिष्ठाः शब्दत्व श्रावणत्वादयो धर्मास्तेषाम् । शब्दनित्यमात्रनिष्ठानां चेति । शब्दनित्यमात्र निष्ठा धर्माः शब्देतरा नित्यान्यत्वादयः । तेषामपि च शब्देतरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वेन तद्रहितत्वानुपपत्तेरिति पूर्वेण संबन्ध: । ततद्धव्यतिरिक्तशब्देतरा नित्येषु दृष्टान्तीक्रियमाणेषु साध्यप्रसिद्धिः कथं भविष्यतीत्याशङ्कयाह — एतद्घटव्यतिरिक्तेत्यादि । एतद्व: पक्षीकृतो घटः शब्दतरेति पदेन वर्जितत्वान्मूलानुमानपक्षच शब्दः, तौ मुक्त्वा अपरे ये भावा अनित्याः पटादयस्ते सर्वेऽपि पक्षतुल्याः । यथा पक्षः सन्दिग्धसाध्यः, तथा तेऽपि सन्दिग्धसाध्या इत्यर्थः । इति न तन्मात्रनिष्ठेष्विति । एतद्वट शब्दव्यतिरिक्ता नित्यमात्रेषु पूर्वोक्तविशेषणोपपन्नानां धर्माणामसंभवेन न साध्यप्रसिद्धिरन्वेषणीया । अतोऽप्रसिद्धविशेषणत्वव्यवच्छेदाय शब्देतरा नित्यनिष्ठपदोपादानम् । यद्यपि शब्देतरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितेवि विशेषणेन केवलेन आकाशत्वादयो धर्मा नोपपद्यन्ते, तथापि शब्देतरा नित्यनिष्ठपदे प्रक्षिते एतद्विशेषणद्वययोगे उपपद्यन्ते एव । तथैव चाह - यद्यपि नित्यमात्रनिष्ठा धर्मा इत्यादि । एवं च नित्यमात्र निष्ठाकाशत्वादिना शब्दमात्रनिष्ठशब्दत्वादिना च साध्यप्रसिद्धौ सिद्धायामाकाशादयः शब्दया दृष्टान्ती कार्याः । एवं च मूलानुमानपक्षं शब्दमेव पक्षीकृत्य प्रवृत्ता महाविद्याः परित्यज्य अन्यासु सर्वास्वपि शब्दोऽपि यथायोगं दृष्टान्तीकार्यः इति व्यञ्जयति - एवं शब्दत्वादिष्वपीति । एवं शब्दे दृष्टान्तीक्रियमाणे शब्दत्वादिना धर्मेण साध्यप्रसिद्धिर्द्रष्टव्येति भावार्थ: । अनित्यनिष्ठशब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहिता नित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणमित्युक्तं च वादिमतेन शब्दे अप्रसिद्धविशेषणत्वं स्यात् । वादिमतेन शब्दमात्र निष्ठानामनित्यनिष्ठत्वेन शब्देतरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वेन च तद्रहितत्वासिद्धेः । तदर्थं शब्देतरेति पदं ज्ञेयम् । तथा च शब्दमानिष्ठस्य शब्देतरा नित्यनिष्ठत्वे सति यच्छदेतरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तद्रहितत्वमेवेति तेन साध्यानुगमः शब्दे द्रष्टव्य इति । घटस्यैवं भूतधर्माधिकरणत्वेऽपि कथं शब्दानित्यत्वमि - त्यत्राह -- शब्देतरा नित्यनिष्ठेत्यादि । आद्यः पक्षे व्याहत इति । आद्यः शब्देतरानित्यनिष्ठत्वरहितो धर्मः पक्षे घटे यः शब्देतर सर्वानित्येषु न वर्तते सोऽनित्ये घटे कथं वर्तते इति व्याघातेन बाधितः । सपक्षे चासौ प्रयोजकः । यतः स धर्मः आकाशत्वशब्दत्वादिरूपः शब्दे - तरानित्यनिष्ठत्वरहितत्वेन शब्देतरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितोऽस्ति । तथा अनित्यस्तम्भादिनिष्टात्यन्ताभावप्रतियोगी चेति । द्वितीयस्य तु शब्देतरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितत्वरूपेधर्मस्य अनित्यनिष्ठात्यन्ताभावप्रतियोगित्वरूपान्त्यविशेषणविशिष्टत्वं तदैव
1
I
१ रूपस्य धर्म' इति च पुस्तकपाठः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
५१