________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं स्यात्, यद्यनित्यः शब्दः स्यादिति । आकाशादिनिष्ठात्यन्ताभावप्रतियोगित्वेन द्वितीयस्यानित्यनिष्ठात्यन्ताभावप्रतियोगित्वं किं न स्यादित्याह-गगनादीनां नित्यत्वादिति । गगनादयो हि नित्यत्वेनोभयोरपि वादिप्रतिवादिनोः संमताः । अतस्तन्निष्ठात्यन्ताभावप्रतियोगित्वेऽपि द्वितीयधर्मस्यानित्यनिष्ठात्यन्ताभावप्रतियोगित्वं न स्यादित्यर्थः । तर्हि स्तम्भादिनिष्ठात्यन्ताभावप्रतियोगित्वेन अनित्यनिष्ठात्यन्ताभावप्रतियोगित्वं भविष्यतीत्याशङ्कय ब्रूते-शब्देतरानित्यमात्रवृत्तेश्चेत्यादि। शब्दादितरे ये अनित्याः पदार्थास्तन्मात्रवृत्तेर्घटत्वादेर्धर्मस्य । शब्देतरानित्येति । शब्देतरानित्यनिष्ठश्चासौ अत्यन्ताभावश्च, तस्य यत्प्रतियोगित्वं तस्यानुपपत्तेः शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितस्य तद्वत्त्वं व्याहतमित्यर्थः । परिशेषाच्छब्दानित्यत्वसिद्धिमभिधत्तेतेनेत्यादि । तेन कारणेन द्वियीयधर्मस्य शब्दानित्यत्वं विना अनित्यनिष्टात्यन्ताभावप्रतियोगित्वान्यथानुपपत्तेः शब्दस्यानित्यत्वमङ्गीकार्यमिति शब्दानित्यत्वसिद्धिरित्यर्थः ।। २१ ॥
२२ अयं घटः एतद्धटैतच्छन्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति ॥ एतद्धटैतच्छन्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगिषु एतद्धटैतच्छन्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वं धर्मः । तद्रहितश्च एतद्धटमात्रनिष्ठात्यन्ताभावप्रतियोगी वा एतच्छन्दमात्रनिष्ठात्यन्ताभावप्रतियोगी वा । आद्यः पक्षे व्याहतः । द्वितीयस्य तु अनित्यनिष्ठात्यन्ताभावप्रतियोगित्वमेतच्छन्दानित्यत्वमनधिगम्य दुरधिगममित्येतच्छब्दानित्यत्वसिद्धिः ॥ २२ ॥
२२ (आनं०)-अयमिति । एतद्धटश्चैतच्छब्दश्चैतद्वटैतच्छब्दो, ताभ्यां व्यतिरिक्तनिष्ठोऽत्यन्ताभावः, तस्य प्रतियोगित्वरहितः, स चायमनित्यनिष्ठात्यन्ताभावप्रतियोगी, तस्याधिकरणमित्यर्थः । मेयत्वादिव्यावृत्त्यर्थमनित्यनिष्ठात्यन्ताभावप्रतियोगीत्युक्तम् । स्तम्भाद्यनित्यनिष्ठात्यन्ताभावप्रतियोगिघटत्वव्यावृत्त्यर्थमेतद्धटव्यतिरिक्तैतन्निष्ठात्यन्ताभावप्रतियोगित्वरहितग्रहणम् । एतच्छब्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणत्वमेतच्छब्दनित्यत्वसिद्वेः प्रागप्रसिद्धमित्यत उक्तम्-एतद्धटेति । घटव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितः एतद्रुटादन्यनिष्ठः एतदनित्यघटनिष्ठात्यन्ताभावप्रतियोगी च, तदधिकरणत्वं घटादन्यत्र सर्वत्रास्तीति व्यात्यनुगमः । एतस्मिन्घटे एतच्छन्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितो नित्यनिष्ठात्यन्ताभावप्रतियोगी सिध्यन्ननित्यत्वं शब्दस्य साधयेदित्याशयः ॥ २२ ॥
२२ ( भुवन०)-अयं घटः एतद्धटैतच्छब्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणमिति । एतद्धटश्च एतच्छब्दश्च एतटैतच्छब्दौ । ताभ्यां व्यतिरिक्तमेतद्वयरहितं सर्व विश्वम् । तन्निष्ठश्वासौ अत्यन्ताभावश्च, तस्य प्रतियोगी एतद्धटैतच्छब्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगी । तद्भावस्तत्त्वं । तेन रहितो विद्युतः अनित्यनिष्ठो योऽत्यन्ताभावस्तस्य प्रतियोगी। एतद्धदैतच्छन्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितश्चासौ अनित्यनिष्ठात्यन्ताभाव
For Private And Personal Use Only