SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प० १ महाविद्याविडम्बनम् । दित्यादि । अयं पक्षनिष्टत्वादिधर्मो नाप्यभावः नाप्यभावरूपः । अयं घटादेराकाशादेर्वाऽभाव इत्येवं प्रतियोगिविशेषस्य अभाव संबन्धिनोऽनिरूपणादित्यर्थः । द्वितीयं विकल्पमङ्गीकृत्य नोदकोक्तं परिहरति-न द्रव्यादिषड्लक्षणानामित्यादि । द्रव्यादयो ये पट्पदार्था द्रव्यगुणकर्मसामान्यविशेषसमवायाख्या वैशेषिकमतप्रसिद्धाः तेषां यानि पड्लक्षणानि १ " गुणाश्रयो द्रव्यम्, " २ " कर्मातिरिक्तो जातिमात्राश्रयो गुणः, " ३ " संयोगविभागाजन्यसंयोगविभागासमवायिकारणजातीयं कर्म, " ४ " नित्यत्वे सत्येकत्वे सत्यनेकसमवेता जातिः सामान्यापरपर्याया, ” ५ " नित्येष्वेव द्रव्येष्वेव वर्तत एव ये ते अन्त्या विशेषाः " ६ " अयुतसिद्धानामाचार्याधारभूतानामिह प्रत्यय हेतुर्यः संबन्धः स समवायः, " इत्येवं रूपाणि । तेषां ये षडत्यन्ताभावास्तद्वत्त्वस्य तदधिकरणत्वस्य अभाव - त्वस्य प्रत्यक्षादिप्रमाणसिद्धत्वाभावो ऽयं पक्षनिष्ठत्वादिरूपो धर्म इत्यर्थः । तथा हि, एवंविधो धर्मो द्रव्यं न भवति, तल्लक्षणाभावात् । तथा गुणोऽपि न भवति । तल्लक्षणाभावात् । एवं कर्मसामान्यादिरूपोऽपि न भवति । तत्तलक्षणाभावादेव । तस्मादयं पक्षनिष्ठत्वादिवर्मोऽभावरूप एव सप्तमः पदार्थः केषांचिद्वैशेषिकाणां मते प्रसिद्धः । एवं च प्रमेयत्वास्तित्वादयोऽपि धर्माः अभावरूपाः एव ज्ञेयाः इत्यर्थः । प्रतियोग्यनिरूप्यस्य अभावत्वानुपपत्तेः प्रतियोगी वाच्य इति शङ्कते । कः पुनरस्य प्रतियोगीति । अस्य पक्षनिष्ठत्वादिधर्मस्याभावरूपस्येत्यर्थः । अभावस्य प्रतियोगिनिरूप्यत्वनियमो नेति परिहरति-- न कश्चिदिति । प्रतियोगिज्ञान कार्यत्वादभावज्ञानस्य कथमनियमस्तत्राह--- सविस्तरं चैतदन्यत्रेति । अत्यन्ताभावो निष्प्रतियोगिक इत्यन्यत्र वार्तिके वक्ष्याम इति तंत एवैतज्ज्ञेयमित्यर्थः । इति पक्षं पक्षीकृत्य प्रवृत्तास्त्रिंशन्महाविद्याः प्रादुश्यन्त ॥ ३० ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ सपक्षं पक्षीकृत्य प्रवर्तमानमहाविद्याभेदाः यथा -- शब्दोऽनित्यः इत्यत्र सपक्षो घटः इति स्थिते, पक्षापक्ष विपक्षान्यवर्गादेकैकमुद्धृतम् । भिन्नं साध्यवतस्तद्वदुद्धृतावधिभेदिनः ॥ (भुवन ० ) - अथ सपक्षं पक्षीकृत्य महाविद्याभेदान् दिदर्शयिषुराह - अथ सपक्षमित्यादि । अथ सपक्षं पक्षीकृत्य प्रवर्तमानमहाविद्याभेदा यथा सन्ति तयोदाहरिष्यन्त इति शेषः । शब्दोऽनित्य इत्यत्रेति । शब्दोऽनित्यः कृतकत्त्रात् घटवदित्यत्र मूलानुमाने घटः सपक्षः इति स्थिते, घटं सपक्षं पक्षी कृत्य प्रयुज्यते इत्यर्थः । तत्र - इति कारिकामाश्रित्य या प्रवर्तते तामाह ३९ For Private And Personal Use Only १ अयं घटः एतद्वदपक्षीकृतशब्दान्यान्यानित्यान्यः मेयत्वादिति । अत्र च वक्ष्यमाणासु महाविद्यासु चाकाशो दृष्टान्तः । एतद्वदपक्षीकृत शब्दयो अन्यस्वे तदुभयवत्त्वरहितः एतद्धपक्षीकृतशब्दान्यान्यः । स चासौ अनित्यश्च । तदन्यत्वाधिकरणमित्यर्थः । एतद्वदपक्षीकृत शब्दान्यान्यानित्यान्यत्वं
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy