________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
श्रीभुवनसुन्दरसूरिकृतटीकायुतं ___३० अयं शब्दः ध्वंसत्वरहितैतभावत्वरहिताभावप्रतियोगी मेयत्वा. दिति ॥ इयं पूर्वा च महाविद्या यत्र यत्रानित्यत्वं साध्यते तत्रैव संचरति । शेषास्तु सकलान्वयव्यतिरेकिसाध्यसंचारिण्य इति ॥ ३०॥
३० (भुवन०)-अयं शब्दः ध्वंसत्वरहितैतदभावेत्यादि । ध्वंसो विनाशः । तत्त्वरहिता ये एतस्य शब्दस्याभावाः पूर्वोक्ता एव । तेषां भावस्तत्त्वं, तेन रहितो योऽभावः साध्यधर्मपक्षे प्रध्वंसाभाव एव, तस्य प्रतियोगी शब्द इत्यर्थः । अभावप्रतियोगीत्युक्ते शब्दस्यान्योन्याभावादिप्रतियोगित्वं सिद्धमेव इत्यत उक्तमेतदभावत्वरहितति । तथा च व्याघातः स्यात् । ततस्तत्परिहाराय ध्वंसत्वरहितेति । ध्वंसत्वरहितैतदभावेषु ध्वंसत्वरहितैदभावत्वं धर्मः । तद्रहितश्चाभाव एतदभावत्वरहितो वा ध्वंसो वा । आद्यं प्रति शब्दस्य प्रतियोगित्वं व्याहतमिति एतदभावत्वरहिताभावप्रतियोगित्वं सर्वसपक्षोपयोगि, द्वितीयं प्रति शब्दस्य प्रतियोगित्वं सिध्यच्छन्दस्यानित्यत्वं साधयेदित्यर्थः । एतन्महाविद्याद्वयमनित्यत्वसाधकमेव न साध्यान्तरसाधकमिति महाविद्यान्तरेभ्योऽत्य वैलक्षण्यं प्रतिपादयति-इयमिति । इयमनन्तरोदिदैव महाविद्या, पूर्वा चायं शब्दोऽनाद्येतदभावेत्यादिको । शेषास्त्विति । शेषाः पक्षसपक्षादिकं पक्षीकृत्य प्रवृत्ता महाविद्याः । सकलानि अन्वयव्यतिरेकिणां यानि साध्यानि तत्संचारिण्यः । एतत्प्रकारश्च पुरापि आपातनिकायां किञ्चित्प्रपञ्चित इति न प्रपश्यते ।
ननु महाविद्याप्रकरणे किमिदं पक्षनिष्ठत्वं, किं वा सपक्षनिष्ठत्वं, किंवा विपक्षनिष्ठत्वं, किं वा उभयनिष्ठत्वमिति । उच्यते । अयं पक्षनिष्ठः, अयं सपक्षनिष्ठः, अयं विपक्षनिष्ठ इत्याद्यबाधितबुद्धिसाक्षिकः पक्षाश्रितत्वसपक्षाधितत्वविपक्षाश्रितत्वोभयाश्रितत्वरूपो धर्मविशेषः । ननु नायं भावः, अभावेऽपि वर्तमानत्वात् । नाप्यभावः, प्रतियोगिविशेषानिरूपणात् इति चेत् । न । द्रव्यादिषड्लक्षणानां ये षडत्यन्ताभावास्तद्वत्त्वस्यात्राभावत्वस्य प्रत्यक्षादिनमाणसिद्धत्वादिति । कः पुनरस्य प्रतियोगीति चेत् । न कश्चित् । सविस्तरं चैतदन्यत्रोपपादयिष्यामः इति ॥
(भुवन०)-अथ प्रेमयत्वादीनां हेतूनां पक्षेण सह संयोगसमवायादिसंबन्धाभावात्पक्षधर्मवाद्यसिद्धिरिति नोदयति-नन्वित्यादि। उभयनिष्ठस्वमिति। पक्षसपक्षनिष्ठत्वमित्यर्थः । बुद्धिविशेषविषयत्वोपाधिको धर्मः पक्षनिष्ठत्वादिरित्याह-उच्यत इत्यादिना । अयं धर्मविशेषः किं भावः उत अभावः इति विकल्प्य नोदकः प्रथमं प्रत्याह-ननु नायमिति । अयं पक्षनिष्ठत्वादिको धर्मो न भावः । नित्यमाकाशं कृतकत्वाभावादित्यादौ पक्षनिष्ठत्वादेर्धर्मस्य कृतकत्वाभावहेतौ अभावरूपेऽपि वर्तमानत्वात् । न द्वितीयोऽपीत्याह-नाप्यभावः, · प्रतियोगिविशेषानिरूपणा
१ अस्याये ‘शेषं तु सुगममेव' इति अधिक छ पुस्तके दृश्यते । २ योगिविषयानि' इति घ पुस्तकपाठः । ३ त्वस्य प्रत्य इति घ पुस्तकपाठः । ४६ । विस्तरतचैतद इति घ पुस्तकपाठः ।
For Private And Personal Use Only