SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०१ महाविद्याविडम्बनम् । रिहारार्थमत्यन्ताभावग्रहणम् । अभिमतसाध्यसिद्धिं निरूपयितुमाह-एतनिष्ठानित्यत्वेत्यादि । एवंविधश्चात्यन्ताभावो द्वधा स्यात्, एतनिष्टत्वरहितोऽत्यन्ताभावो वा नित्यत्वात्यन्ताभावो वेति । तत्राद्यस्य पक्षे व्याघातमाह-आद्यः पक्षे व्याहत इति । आद्यः एतनिष्ठत्वरहितोऽन्यन्ताभावः, पक्षे शब्दे, व्याघातेन बाधितः । अयमाशयः-पक्षीकृतशब्दधर्मा ये शब्दत्वश्रावणवादयः तेषामत्यन्ताभावः शब्दनिष्ठो नास्ति । यतः शब्दत्वादय एव शब्दधर्माः शब्दनिष्ठाः, न तु तदस्यन्ताभावः । तस्य शब्दादन्यत्रैव वर्तनात् । ततस्तस्मिन् शब्दे साध्यमाने स्फुट एव व्याघातः । तस्मादेतन्निष्ठत्वरहितात्यन्ताभावः सर्वत्र सपक्षे ज्ञेयः । द्वितीयत्य शब्दे सिद्धिमाह-द्वितीय इत्यादि । द्वितीयोऽनित्यत्वात्यन्ताभावात्यन्ताभावः । एतावता नित्यत्वस्यात्यन्ताभावः शब्दे साध्यते । स च अनित्यत्वमेवेतिभावः । अत्र हेतुमाह-अनित्यत्वात्यन्ताभावेत्यादि। अनित्यत्वात्यन्ताभावो नित्यत्वम् । तस्यात्यन्ताभावस्य अनित्यत्वानतिरेकादनित्यत्वरूपत्वादित्यर्थः । हेवन्तरमाहतत्तुल्ययोगक्षेमत्वाद्वेति । तेन तुल्यौ यौ योगक्षेमौ, तद्भावः तत्त्वं, तस्मात् । अत्रायं भावः । यथा अनित्यत्वस्यात्यन्तिकनिषेधो नित्यत्वं, तथा तदात्यन्तिकनिषेवः पुनरनित्यत्वमेव । " परस्परविरोधे हि न प्रकारान्तरस्थितिः” इतिन्यायादित्यर्थः ।। २८ ॥ २९ अयं शब्दः अनाद्येतद्भावत्वरहिताभावप्रतियोगी मेयत्वादिति ॥ अनाद्येतद्भावेषु अनाद्येतद्भावत्वं धर्मः ।तद्रहितश्वाभावः एतभावत्वरहितो वा, आदिमानेतभावो वा । आद्यं प्रत्येतस्मिन्प्रतियोगित्वं न सिध्यति । व्याघातात् । द्वितीयस्तु प्रध्वंस एवेत्यनित्यत्वसिद्धिः ॥ २९ ॥ २९ (भुवन०)-अथाभिनवप्रकारान्तरेण पुनर्महाविद्यान्तरमाह-अयं शब्दः अनायेतदभावत्वेत्यादि । एतस्य पक्षशब्दस्य अभावाः एतदभावाः । अनादयश्च ते एतदभावाश्च अनाद्येतदभावाः, प्रागभावान्योन्याभावात्यन्ताभावरूपाः । ' अनादिः सान्तः प्रागभावः, । ' तादात्म्यनिषेधोऽन्योन्याभावः, ' ' अनादिरनन्तः संसर्गाभावोऽत्यन्ताभावः ' इति तेषां लक्षणात् । तेषां भावः तत्त्वम् । तेन रहितो योऽभावः पक्षमध्ये सादिरभावः, स च प्रध्वंसाभाव एव । 'सादिरनन्तः प्रध्वंसाभावः' इति तल्लक्षणात् । तस्य प्रतियोगी शब्द इत्यर्थः । अयं शब्दः प्रतियोगीत्युक्ते श्रोत्रे शब्दसमवाय इति समवायप्रतियोगित्वेन शब्दे सिद्धसाव्यता स्यात् । अनाश्रयत्वे सति व्यावर्तकस्य प्रतियोगित्वात् । अत उक्तमभावप्रतियोगीति । एवं चान्योन्याभावप्रतियोगित्वेन सिद्धसाधनं स्यात्, अत उक्तमनादिवरहितेति । अनादित्वरहिताभावप्रतियोगीत्युक्ते च व्याप्तिभङ्गः, नित्येषु तदभावात् । अत उक्तमनादित्वरहितेति । इतिच्यावृत्तिचिन्ता । एतदभाववरहितो वेति । एतस्य पशब्दस्य योऽभावः, तत्त्वरहितोऽभावो घटत्वाकाशत्वाद्यभावः । सोऽप्यनाद्येतदभावत्वरहितः । परमेतस्य शब्द: प्रतियोगी न स्यात् , तस्मायाघातः । आदिमानेतदभावो वेति । आदिविद्यते यस्य स आदिमान् । प्रध्वंसाभाव इत्यर्थः । तस्य च प्रतियोगित्वं शब्दस्य अनित्यत्वे एव स्यात्, नान्यथेति शब्दानित्यत्वसिद्विरिति । अत्र शब्दान्यवत्तु अभावप्रतियोगित्वं शब्देतर. समस्तवस्तूनामप्यस्तीति तेषां सपक्षता ॥ २९ ॥ For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy