SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० श्रीभुवनसुन्दरसूरिकृतटीकायुतं चैतद्धटान्यत्वेन वा स्यात्, पक्षीकृतशब्दान्यत्वेन वा । औद्यो व्याहतः। न ह्ययं घटः एतस्माद्धटादन्य इति संभवति । द्वितीये तु शब्दानित्यत्वसिद्धिः । यदि पक्षीकृतः शब्दो न अनित्यः, कथं तर्हि पक्षीकृतानित्यान्यत्वं घटे स्यादिति ॥१॥ १ (भुवन०)-अयं घट एतद्धटपक्षीकृतशब्दान्यान्यानित्यान्यः, मेयत्वादिति । अत्र महाविद्यानुमानापेक्षया घट: पक्षः । यच्चानुमाने पक्षीकृतशब्द इत्युक्तं, तदनित्यः शब्द इत्यादि मुख्यानुमानापेक्षया । अथ व्याख्या । अयं घट इति विवक्षितः कश्चिद्धट: पक्षः । एतद्वदश्च पक्षीकृतशब्दश्चैतद्धटपक्षीकृतशब्दौ, ताभ्यामन्यत् एतद्धटपक्षीकृतशब्दान्यत्। तस्मादन्यश्चासौ अनित्यश्चेत्येतद्वटपक्षीकृतशब्दान्यान्यानित्यः तस्मादन्यो घट इत्यर्थः । अयं भावः । एतद्रुटपक्षीकृतशब्दाभ्यां यदन्यत् विश्वं तदन्यः एतद्बटो वा पक्षी कृतः शब्दो वा । तत्रैतद्धटस्यैतद्धटादन्यत्वं व्याहतम् । तस्मादनित्यशब्दादन्य एतद्धटः सिध्यन् शब्दानित्यत्वं साधयेदित्यर्थः । घट: उक्तसाध्यः इत्युक्ते घटान्तरं घटान्तरादन्यदिति भागे सिद्धसाधनम् । अत उक्तमयं घट इति । अयं घटोऽनित्यान्य इत्युक्ते अनित्यात्पटादेरन्यत्वं सिद्धमत आह-घटपक्षीकृतशब्दान्यान्यानित्यान्य इति । तथोक्ते च घटान्तरान्यत्वमुक्तरूपं सिद्धमत उक्तमेतद्धटेति । एतदुटपक्षीकृतशब्दान्यान्य इत्युक्ते पक्षीकृतशब्दान्यत्वेन शब्दस्य नित्यत्वेऽप्युपपद्यमानेनार्थान्तरता, तदुक्तमनित्येति । एतद्बटपक्षीकृतशब्दान्यान्याऽनित्यस्य घटस्यान्यत्वेन सर्वत्राकाशादौ व्याप्तिसिद्धिर्जेया । अत्र वक्ष्यमाणेत्यादि । अत्र सपक्षं पक्षीकृत्य प्रवर्त्तमानमहाविद्यासु पटाद्यनित्यसर्वसपक्षस्य पक्षतुल्यत्वेनाकाशाय एव दृष्टान्ता ज्ञेयाः । एतद्धटेत्यादि । एतद्धटपक्षीकृतशब्दयोः संबन्धिनी ये अन्यत्वे भिन्नत्वे। तदुभयेति । तयोरन्यत्तयोरुभयमित्यर्थः । यदि पक्षीकृतेत्यादि । यदि पक्षीकृतशब्दोऽनित्यो न स्यात् , तदा पक्षीकृतादनित्याच्छब्दाद्धटस्यान्यत्वं न स्यादित्यर्थः ॥ १॥ २ अयं घटः एतद्धटपक्षीकृतशब्दान्यान्यानित्यनिष्ठात्यन्ताभावाधिकरणं मेयत्वादिति । अत्र चैतद्धटपक्षीकृतशब्दान्यान्यः एतद्धटो वा, पक्षीकृतः शब्दो वा । न च घटनिष्ठस्यात्यन्ताभावो घटे संभवति । तेन यदि शब्दोऽ नित्यः स्यात्, तर्हि शनिष्ठस्यात्यन्ताभावमुपादाय प्रकृलसाध्यपर्यवसानं स्यादिति शब्दानित्यत्वसिद्धिः ॥२॥ २ (भुवन०)-अथ पूर्वमहाविद्यामेव अन्यान्यपदस्थाने निष्ठात्यन्ताभावाधिकरणपदक्षेपेण प्रकारान्तरेणाह-अयं घट एतद्धटेत्यादि । एतद्धटपक्षीकृतशब्दान्यान्यानित्ये एतद्धटे वा पक्षीकृतशब्दे वा निष्ठा यस्य घटत्वशब्दत्वादेर्धर्मस्य स एतद्धटपक्षीकृतशब्दान्यान्यानित्यनिष्ठः । तस्य यः अत्यन्ताभावस्तदधिकरणं घट इत्यर्थः । अत्र घटनिष्ठस्य घटत्वादेरत्यन्ताभावो घटे पक्षीकुते १ आये व्याघातः इति घ पुस्तकपाठः । २ कृतशब्दान्यत्वं' इति घ पुस्तकपाठः । ३ 'प्रकृतप्रतिज्ञार्थपर्य इति घ पुस्तकपाठः।। For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy