________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
भुवनसुन्दरसूरिकृतटीकायुतं श्रीसोमसुन्दरगुरुत्तमपादपद्म
संसेविना भुवनसुन्दरसूरिणेयम् । वृत्तिः कृता स्वपरयोरुपकारहेतोः
सेव्या प्रमाणनिपुणैर्विजयोदयाय ॥ १॥ हषपुरनामनगरे देवश्रीपार्श्वनाथशुभदृष्टौ । व्याख्यानदीपिकेयं समर्थिता भवतु जयलक्ष्म्यै ॥२॥ षट्तर्कीपरितर्ककर्कशमतिश्चारित्रराजो यति
विद्योत्तमरत्नशेखरमुनिर्वादीन्द्रवृन्दापणीः । एतौ द्वावपि शुद्धबुद्धिविभवो टीकामिमां सादरं
संशोध्य प्रथमप्रती गुणयुतौ संस्थापयामासतुः ॥ ३॥ ग्रन्थोऽयं विषमो मतान्तरगतो गूढार्थसार्थान्वितो
व्याख्या नैव पटुः स्फुटार्थघटने नो संप्रदायस्तथा । तस्मान्मन्दमतिप्रबोधविधये स्पष्टार्थनिष्टकिनी ।
टीकेयं विहिता चिरं विजयतामन्विष्यमाणा बुधैः ॥ ४ ॥ इति श्रीजिनशासन-गगनाङ्गणनभोमणिषड्दर्शनीरहस्याभिज्ञशिरोमणि-सुविहिताचार्यचक्रचूडामणि-श्रीतपागच्छश्रृंगारहारभट्टारक-प्रभुश्रीसोमसुन्दरसूरिशिष्यश्रीभुवनसुन्दरसूरिविरचितायां महाविद्याविडम्बनवृत्ती व्याख्यानदीपिकायां
दृषणविवेकव्याख्यानो नाम तृतीयः परिच्छेदः समाप्तः ।।
ग्रन्थश्च संपूर्णः
१ इत आरभ्य लोकचतुष्टयात्मिका ग्रन्थकर्तृप्रशस्तिः छ द पुस्तकयोर्न विद्यते । २ तपोगच्छ इति च पुस्तकपाठः । ३ इतः परं द पुस्तके निम्नलिखितानि प्रशस्तिपथानि विद्यन्ते ।
For Private And Personal Use Only