SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०३ महाविद्याविडम्बनम् | इति दूषणपाषाणजर्जरीकृतमूर्तयः । महाविद्या: क्षणं स्थातुं न क्षमन्ते रणाङ्गणे ॥ २१ ॥ ( भुवन ० ) — पूर्वप्रतिपादित निखिलदोषदूषितत्वं महाविद्याया निगमयति — इति दूषणेत्यादि । दूषणान्येव पाषाणा:, तैर्जर्जरीकृता मूर्तयो यासां तास्तथेति विग्रहः । वादरणाङ्गणे महाविद्याः क्षणमपि स्थातुं न क्षमन्ते, न समर्था भवन्तीत्यर्थः ॥ २१ ॥ अथ किमर्थ स्वाभिमतसकलप्रमेयसाधकमहाविद्यानिराकरणम् । जातीनामिव तासामाभासत्वख्यापनार्थम् । अन्यथा महाविद्याप्रयोक्तृणां शिष्याणां प्रतिवाद्युदीरितप्राचीनदूषणैः पराजयादिति । Acharya Shri Kailassagarsuri Gyanmandir ( भुवन० ) - अन्वयव्यतिरेक्यनुमानसाध्यस्य स्वाभिमतस्य महाविद्यया अनायासेन साधयितुं शक्यत्वात्तन्निरासः किमर्थमित्या रेकते - अथ किमर्थमित्यादि । स्वस्य अभिमतानि यानि सकलप्रमेयाणि नित्यत्वानित्यत्वादीनि तत्साधिकाः याः महाविद्याः तन्निराकरणं किमर्थमित्यन्वयः । प्रश्नं मत्वा सिद्धान्ती समाधत्ते - जातीनामिवेति । यथा जातीनां दूषणाभासत्वं, तथा महाविद्यानां हेत्वाभासत्वख्यापनार्थं महाविद्यानिराकरणमिति भावः । विपर्यये बाधकमभिधत्ते — अन्यथा महाविद्येति । अन्यथा यदि महाविद्यानामाभासत्वं न ख्याप्यते, तदा सम्यक् साधनत्वाच्छिष्या महाविद्याः प्रयुञ्जते । तथा च प्रतिवाद्युद्भावित दुष्परिहारपूर्वोक्तानैकान्तिकत्वादिदूषणैः शिष्याणां पराजयः प्रसज्येत । तस्मादाभासत्वख्यापनाय महाविद्यानिरासः समञ्जसः एवेति हृदयाभिप्रायः । एवं च साधनाभासत्वान्महाविद्या कथायां न प्रयोक्तव्येति शिष्यानुशिष्टिरादिष्टा भवति । किश्च - यत्र यत्र परः प्रौढिप्रकर्षमवलम्बते । श्लाघ्यस्तत्तन्निरासार्थः प्रज्ञाभ्यासवतां श्रमः ॥ २२ ॥ योगीश्वरगुरोः शब्दविद्यामासाद्य तत्त्वतः । व्यधत्त भट्टवादीन्द्रो महाविद्याविडम्बनम् ॥ २३ ॥ इति श्री हरकिङ्करन्यायाचार्यपरमपण्डितवादीन्द्रविरचिते महाविद्याविडम्बने दूषणविवेको नाम तृतीयः परिच्छेदः ॥ ३ ॥ १४९ For Private And Personal Use Only ( भुवन ० ) - महाविद्याप्रयोक्तारो वयं सर्वत्र विजयिनः इति गर्वपर्वताधिरूढानां दुरभिमानभङ्गार्थमपि महाविद्यानिरासः कार्यः इत्याह- किंच यत्रेत्यादि । किंच प्रकारान्तरोक्तौ । यत्र यत्र परः प्रौढप्रकर्ष पाण्डित्याभिमानमवलम्बते तत्तन्निरासार्थः प्रज्ञाभ्यासवतां दुरधिगमग्रन्थादिविषयिणी या प्रज्ञा प्रतिभा गूढार्थविचारणादिरूपा तस्याः अभ्यासः पौनःपुन्येन परिशीलनं, तत्र तत्पराणां नराणां श्रमः श्लाघ्यो भवतीति योजना । इह यत्र यत्रेत्यत्र यच्छब्दपरामृष्टं तत्तन्निरासेत्यत्र तच्छब्देन परामृश्यते । एतावता महाविद्यायां परस्य प्रौढिप्रकर्षे मत्वा महाविद्यानिरासाय श्रमः ऋष्यः एवेत्यभिहितं भवति । तथा च महाविद्यानिरासेऽपरमपि प्रयोजनं प्रदर्शितमित्यर्थः ||२२||
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy