________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४६
भुवनसुन्दरसूरिकृतटीकायुतं
1
किमनित्यत्वेन व्याप्यत्वं । यत्र यत्र महाविद्यासाध्यं तत्र तत्रानित्यत्वमिति भावः । अनित्यत्वेनेति । अनित्यत्वं विना महाविद्यासाव्यं नोपपद्यते एवेत्यर्थः । प्राक्तनं प्रति जल्पति - नाद्य इति । गगनादौ महाविद्यासाध्यसत्त्वेऽप्यनित्यत्वस्य अभावाव्याप्तिभङ्गः इति हृदयम् । द्वितीयमपवदति - नापीति । युक्तिं खेटयति - तेन विनेति । तेन अनित्यत्वेन विनापि गगनादौ भवतो वर्तमानस्य महाविद्या साध्यस्य तेन अनित्यत्वेन विना यदनुपपद्यमानत्वं तस्यासिद्धेः । अयमाशय: - अनित्यत्वेन विनापि गगनादौ महाविद्यासाध्य सद्भावान्महा विद्यासाध्यस्य अनित्यत्वेन विना अनुपपद्यमानत्वमसिद्धमिति । अथ परः आरेकते - पक्षीकृतेति । पक्षीकृतेत्यादिसाध्यस्य पक्षीकृतशब्देन सह संसर्गोऽनित्यत्वेन व्याप्यः, अनित्यत्वेन विनानुपपद्यमानो वेति परारेकार्थः । पूर्वपक्षिणो सिद्धान्ती आह-न । तस्यापीति । तस्यापि पक्षीकृतेत्यादिमहाविद्या साध्यपक्षीकृतशब्दसंसर्गस्यापि उभयसंसर्गिणी महाविद्यासाध्यपक्षरूपौ तत्र निष्ठतया, पक्षीकृतेत्यादिसाध्ये नित्ये शाश्वतेऽपि वर्तमानत्वेन अनित्यत्वेनाव्याप्यत्वात् तेनानित्यत्वेन विनाप्युपपद्यमानत्वाच्चेति पदाक्षर - योजना । अयं तत्त्वार्थः । संसर्गस्य द्विष्ठत्वान्नित्येऽपि महाविद्यासाध्ये वर्तनादनित्यत्वस्य च तत्रावर्तनाद्यत्र प्रकृतसंसर्गः तत्रानित्यत्वमिति व्याप्तिभङ्गात्प्रकृतसंसर्गस्यानित्यत्वेन व्याप्यत्वं न घटाकोटमाटीकते । तथा अनित्यत्वं विनापि प्रकृतसंसर्गस्य अनित्ये महाविद्यासाध्ये वर्तनादनित्यत्वेन विना अनुपपद्यमानत्वमपि न जाघट्यादिति ।
"
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वपक्षी आक्षिपति - पक्षीकृतेति । पक्षीकृतेत्यादिमहाविद्यासाध्यवत्त्वे सति यत्पक्षीकृतशब्दत्वं तत् अनित्यत्वेन व्याप्यं, अनित्यत्वेन विना अनुपपद्यमानं वेत्यर्थः । अत्र हि शब्दस्यानित्यत्वं साध्यं, साध्येन च यो व्याप्यते स हेतुरिति पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्य निष्ठाधिकरणत्वे सति पक्षीकृतशब्दत्वस्य अनित्यत्वरूपसाध्यासाधकत्वादवास्तवमपि अनित्यत्वसाध्यव्यपकत्वाद्धेतुत्वं मनसि निधाय पराचष्टे - न । तस्येति । तस्य पक्षीकृतेत्यादिसाध्यवत्त्वे सति पक्षी - कृतशब्दत्वस्य, असाधारणानैकान्तिकत्वेन व्याप्यत्वानुपपद्यमानत्वयोर्विरहादित्यक्षरार्थः । भावार्थस्वयम् - सति सपक्षे सपक्षाप्रवेशी असाधारणानैकान्तिकोऽनध्यवसितो वा अनैकान्तिकभेदो वा । तत्र अस्य हेतोः सपक्षे घटादौ सत्यपि सपक्षाप्रवेशित्वेन असावारणानैकान्तिकत्वात् यत्र पक्षीकृतेत्यादिसाध्यवत्त्वे सति पक्षीकृतशब्दत्वं तत्रानित्यत्वमिति व्याप्तेः कापि सपक्षे प्रसिद्धत्वाभावेन अनित्यत्वव्याप्यत्वाद्यनुपपत्तिरिति । विपक्षे बाधकमादिशति — अन्यथेति । अन्यथा असाधारण - त्वेऽप्यनित्यत्वव्याप्यत्वाद्यभ्युपगमे तस्य पक्षीकृतेत्यादिसाध्यवत्त्वे सति पक्षीकृतशब्दत्वस्य नित्यत्व-व्याप्यत्वाद्यपि आपद्येत, युक्तेरुभयत्रापि साम्यादिति । न् केवलमस्य हेतोरसाधारण्यं, व्यर्थविशेपणतापीत्याह - पक्षीकृतशब्दव्यतिरिक्तेति । पक्षीकृतशब्दात् यद्व्यतिरिक्तं विशेषणं तद्वैयर्थ्यात् । चकारो दोषान्तरसूचकः । एतावता पक्षीकृतशब्दत्वमेव हेतुरस्तु, व्यर्थमन्यद्विशेषणमिति भावः । उक्तमितरत्रातिदिशति - सेयमित्यादि । ननु भवद्भिः सामान्येन महाविद्यानिष्टार्थान्तरता प्रत्य पादि, न प्रत्येकं महाविद्याविशेषनिष्ठेत्याशङ्कयाह - ये तु महाविद्येति । अन्यत्र ग्रथान्तरे इत्यर्थः ।
१ साध्यव्याप्यत्वा' इति च पुस्तकपाठः ।
For Private And Personal Use Only