________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३
महाविद्याविडम्बनम् ।
१४५
असम्भवमुपपादयति-अनित्यत्वाभावेति । अनिवत्वाभावो नित्यत्वं, तस्य गगनादौ पक्षमात्रवृत्त्यनित्यनिष्ठधर्ममन्तरेणोपलम्भेऽपि, अनित्यत्वाभावो नित्यत्वं, तं विना पक्षमात्रवृत्त्यनित्यनिष्ठधर्मस्यानुपलम्भात् । अयं मथितार्थः-यद्यपि पक्षमात्रवृत्त्यनित्यनिष्ठधर्म विनापि नित्यत्वं गगनादावुपलभ्यते, तथापि नित्यत्वं विना पक्षमात्रवृत्त्यनित्यनिष्ठो धर्मः पक्षीकृतशब्दानित्यत्वे शब्दत्वादिनोंपलभ्यते एव । ननु नित्यत्वं विनाप्येवंविधधर्मोपलब्धिः पक्षीकृतशब्देऽस्त्येव । न । पक्षीकृतशब्दे ह्ययं धर्मोऽद्यापि व्याघातबलात्साध्यमानोऽस्ति । व्याघातश्चात्र विकल्प्य खण्ड्यमानोऽस्ति । व्याघातसिद्धौ च तत्सिद्धिर्भवित्रीति तद्धर्मस्य पक्षे विवादास्पदीभूतत्वात्कुत्रापि नोपलब्धिः संभवति । तस्मादन परस्परपरिहारोपलम्भनियमाभावेन तृतीयभेदो न संभवत्येवेति । उभयोः परस्परपरिहारोपलम्भेऽपि तन्नियमस्याप्रामाणिकत्वं सङ्गिरते-उभयोरिति । दण्डित्वकुण्डलित्वयोः परस्परपरिहारोपलम्भेऽपि देवदत्तादौ द्वयोरपि सहोपलम्भादेतन्नियमस्य निष्प्रमाणकत्वमितिभावना ।
अथ व्याघातो मा भूत्, प्रतीतापर्यवसानं तु भविष्यतीति । प्रतीतं हि पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वमस्मादेवानुमानात् । तच पक्षीकृतशब्दानित्यत्वमन्तरेणापर्यवस्यत् तद्गमयतीति । तन्न । किमिदमनित्यत्वमन्तरेणापर्यवसानं प्रकृतसाध्यस्य, किमनित्यत्वव्याप्यत्वं, अनित्यत्वेन विना अनुपपद्यमानत्वं वा । नाद्यः । गगनादौ व्याप्तिभङ्गात् । नापि द्वितीयः । तेन विनापि भवतः तेन-विनानुपपद्यमानत्वासिद्धेः । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वपक्षीकृतसंसर्गोऽनित्यत्वव्याप्यः, अनित्यत्वेन विनानुपपद्यमानो वा इति चेत् । न । तस्यापि उभयसंसर्गिनिष्ठतया पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वे नित्येऽपि वर्तमानत्वेन अनित्यत्वाव्याप्यत्वात्, तेन विनाप्युपपद्यमानत्वाचेति । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वे सति पक्षीकृतशब्दत्वमनित्यत्वव्याप्यं, अनित्यत्वेन विनानुपपद्यमानं वेति चेत् । न । तस्य असाधारणत्वेन व्याप्य. त्वानुपपद्यमानत्वविरहात् । अन्यथा तस्य नित्यत्वव्याप्यत्वनित्यत्वेन-विनानुपपद्यमानत्वयोरप्यापत्तेः, पक्षीकृतशब्दव्यतिरिक्तविशेषणवैयर्थ्याचेति । सेयमर्थान्तरता सकलमहाविद्यासु संचारणीया । ये तु महाविद्याविशेषनिष्ठाः भङ्गिविशेषेण अर्थान्तरताविशेषाः, तेऽन्यत्र व्युत्पादयिष्यन्ते इति ।
( भुवन०)-महाविधिकः आरेकते-अथ व्याघातः इति । प्रतीतस्यापर्यवसानमिति विग्रहः । प्रतीतापर्यवसानमेव व्यक्तीकुरुते-प्रतीतमित्यादि । तच्च पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्टाधिकरणत्वं चेत्यर्थः । तद्दमयतीति । तत् पक्षीकृतशब्दानित्यत्वमिति तच्छब्दार्थः। विकल्पासहत्वादपाकुरुते- तन्न। किमिदमिति ! महाविद्यासाध्यस्यानित्यत्वं विना अपर्यवसानं नाम किमिदमिति योजना । द्वेधा विकल्पयति-प्रकृतसाध्यस्येति । प्रकृतसाध्यस्य महाविद्यासाध्यस्य ।
१९ महाविया०
For Private And Personal Use Only