SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ महाविद्याविडम्बनम् । १४७ ____ अथ अयं शब्दो नित्योऽनित्यो वेति विप्रतिपत्तौ यदा अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादित्यादिमहाविद्या प्रयुज्यते, तदा अस्तु नाम अर्थान्तरता । यदा पुनरयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं न वा इत्येव विवादः, तदा कथमर्थान्तरतेति चेत् । मा भवतु तदा अर्थान्तरता, प्राचीनदोषास्तु भविष्यन्त्येव । (भुवन० )-अथ परारेका-अथायं शब्द इति । शब्दस्य नित्यत्वानित्यत्वविषये विवादे सति यदा महाविधिकोऽयं शब्दः स्वस्वेतरेत्यादिकमनुमिमीते, तदा महाविद्यासाध्यं शब्दे सिध्यतु, अनित्यत्वं तु कुतस्त्यमित्येवंरूपार्थान्तरता भवतु । यदा पुनरिति । यदा त्वयं शब्दः स्वस्वेतरेत्यादिमहाविद्यासाध्यवान्न वेत्ति विवादः, तदा कौतस्कुतीयमर्थान्तरता, अन्यस्यार्थस्यैवाभावादित्यक्षरार्थयोजना । प्रत्युतरं प्राह-मा भवत्विति । प्राचीनदोषाः उपाध्यनैकान्त्यादयः । किञ्च, अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं न वेत्यादिविवाद एव दुर्घटः । केवलान्वयित्वाभिमतधर्माभावस्याप्रसिद्धत्वेन न वेति पक्षानुत्थानात् । ( भुवन० )-उक्तविवादमूरीकृत्य मा भवतु तदार्थान्तरतेत्यभिहितं, साम्प्रतमुक्तविवादः एव न सम्भवेदित्याह-किं चेत्यादि । किंच दूषणान्तरोक्तौ । हेतुमाह-केवलान्वयीति । केवलान्वयित्वेन सर्ववस्तुनिष्ठत्वेनाभिमतो यो धर्मः, तदभावस्याप्रसिद्धत्वेन न वेति पक्षः एव नोत्तिष्ठति । अयमभिप्रायः-महाविद्यासाध्यधर्मस्य त्वन्मते केवलान्वयित्वेन सर्वत्र सत्त्वान्न वेति पक्षः एव नोदियादिति । अथ पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वादिः केवलान्वयित्वाभिमतः पक्षनिष्ठो न वेति विवादमुद्धाट्य, अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादिति प्रयोगमारचयसि, तदा दुर्वारैवार्थान्तरता । न हि पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वमेव पक्षीकृतशब्दनिष्ठत्वम् । नापि तस्य व्यापकम् । तस्य त्वन्मते केवलान्वयित्वात् , पक्षीकृतशब्दनिष्ठत्वस्य च गगनादेावृत्तत्वात् । अन्यथा तभावाप्रसिद्धौ तत्रापि विवादानुपपत्तेः। नापि प्रकृतसाध्यवत्त्वापरपर्यायः प्रकृतसाध्यपक्षसंसर्गः एव पक्षनिष्ठत्वम् । प्रकृतसाध्यवत्त्वस्य त्वन्मते पक्षनिष्ठत्वात् । पक्षनिष्ठत्वस्य च पक्षनिष्ठत्वविरहात् । न च पक्षस्य प्रकृतसाध्यवत्त्वसिद्धिरपर्यवसानात्प्रकृतसाध्यस्य पक्षनिष्ठत्वं गोचरयतीति युक्तम् । अपर्यवसानस्य प्रागेव प्रतिषिद्धत्वादित्यलमाराध्यविरोधेन । १ त्यादिविवा इति ज पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy