SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प० ३ महाविद्या विडम्बनम् | १४१ विशिष्टो यः पर्वतः तदनुमितिं जनयिष्यति, किमपर्यवसानादिना अनुपपत्त्यादिनेत्यर्थः । प्रतिबन्धैव प्रत्युत्तरयति - एवमित्यादि । पक्षीकृतेत्यादिमहाविद्यासाध्येन व्याप्यं यत्पक्षीकृतनिष्ठं मेयत्वं साधनं तदनुभवः एव । पक्षीकृतेत्यादिसाध्यं च पक्षमात्रनिष्ठत्वे सति, अनित्यनिष्ठविशेषश्च शब्दानित्यत्वे सति शब्दत्वादिरूपः । ताभ्यामवच्छिन्नस्य विशिष्टस्य पक्षीकृतशब्दस्य अनुमितिमिति पदान्वयः । एवं सकलमहाविद्यासु धूमानुमानसमानन्यायेन विशेषसिद्धिरुपपादनीयेति । तदयुक्तम् । पर्वतो वन्हिमान् धूमवत्त्वादित्यत्रापि धूमवत्त्वव्यापकवन्हिमत्त्वावच्छिन्नपर्वतातिरिक्तवन्हिविशेषाप्रतीतेः । कथं तर्हि अविसंवादिविशेषविषयप्रवृत्तिसाक्षिका वन्दिविशेषप्रतीतिरिति चेत् । अयं पर्वतः एतइन्हिमान् एतडूमवत्त्वात्, न यदेवं न तदेवं यथा हद इत्यनुमानादित्यवेहि । न च अनयोर्वन्हिधूमविशेषयोः पूर्वमप्रतीतेर्व्याप्तिग्रहणासंभवः इति वाच्यम | महानसादौ धूमवत्त्ववन्हिमत्त्वव्याप्तिग्रहणसमये सकलधूमवन्हिविशेषतन्निष्टव्याप्तिप्रतीत्यङ्गीकारात् । न च एतस्य वन्हिविशेषस्य पूर्वमेव प्रतीतत्वे अनुमानवैयर्थ्यम् । अस्य वन्हिविशेषस्य पूर्वं प्रतीतत्वेऽपि एतत्पर्वतनिष्ठतया पूर्वमप्रतीतेः । 1 ( भुवन ० ) उपसंहरति - एवमिति । विशेषसिद्धिरनित्यत्वादिसिद्धिरित्यर्थः । एवं महाविद्यावादिनोऽभिप्रायमाशङ्कप पराचष्टे - तदयुक्तमिति । कुतोऽयुक्तमत्राह - पर्वत इति । धूमववहेतोर्व्यापकं वन्हित्त्वं तेन अवच्छिन्नपर्वतादतिरिक्तस्य विन्हिविशेषस्य अप्रतीतेरिति संबन्ध: 1 पाकार्थिनां विशेषप्रतीतिरनुभूयते, तत्र का गतिरिति आशङ्कते - कथमिति । अविसंवादी यो विशेषः पाकादियोग्याभिस्वरूपः तद्विषया या प्रवृत्तिः, तत्साक्षिका वन्हिविशेषप्रतीतिः कथमिति योजना । अयमर्थः । यया अविसंवादिविशेषविषया प्रवृत्तिर्जन्यते सा वन्हिविशेषप्रतीतिरिति । गतिमाह — अयं पर्वतः इति । एतद्वह्निर्विवक्षितः पाकादियोग्योऽग्निरित्यर्थः । आशङ्कामुच्छिनत्ति— नच अनयोरिति । अनयोर्विवक्षितयोर्धूमवन्हिविशेषयोः पूर्वं महानसादौ अपरिज्ञानाव्याप्तिर्न संभवतीति न च भाषणीयमिति भावः । कस्मान्न वाच्यमित्यत्राह - महानसादाविति । महानसादौ सामान्येन धूमवत्त्ववन्हिमत्त्वयोर्व्याप्तिग्रहणसमये सकलधूमवन्हिविशेषयोः तन्निष्ठा सकलधूमवन्हि - विशेषनिष्ठा या व्याप्तिः, तस्याश्च प्रतीतेरङ्गीकारादिति पदघटना । वन्हिविशेषश्चेत्पूर्व प्रतीतः, तदा सिद्धसाधनत्वेन अनुमानकथाप्युच्छिद्येत इत्याह-न च एतस्येति । पूर्वं महानसादावित्यर्थः । हेतुमाच - अस्येति । अस्तु वा वन्हिमत्त्वावच्छेदकतया पर्वते वन्हिविशेषवत्पक्षीकृतशब्दतदितरवृत्तित्वरहिता नित्यनिष्ठाधिकरणत्वावच्छेदकतया पक्षीकृतशब्दे पक्षीतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठविशेषसिद्धिः । पक्षीकृतशब्दमात्रनिष्ठा १ धूमानुमानन्या' इति घ पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy