________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४०
भुवन सुन्दर सूरिकृत टीकायुतं दतदितरवृत्तित्वरहितानित्यनिष्ठोऽपि द्वेधा, पक्षीकृतशब्दानिष्टः तन्निष्टश्च । आद्यः पक्षे व्याहत इति द्वितीयस्य सिद्धिरिति ।
( भुवन० ) - दहनानुमाने पर्वतनिष्ठवह्निविशेषसिद्धिं शङ्कते - अथ वह्नीति | पक्षे पर्वते इत्यर्थः । व्याघातादिनेति । विरुद्धसमुच्चयो व्याघातः । आदिपदेन प्रमाणविरोधसंग्रहः । इहापि समः समाधिरित्याह — एवं तर्हीत्यादि । तन्निष्ठः पक्षीकृतशब्दनिष्ठः । पक्षे विवक्षितशब्दे इत्यर्थः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं किं पेक्षानिष्ठानित्यनिष्ठघटितमूर्ति किंवा पक्षमात्रनिष्ठानित्यनिष्टघटितमूर्ति, किंवा उभयविशेषघटितमूर्त्ति । आद्ये पेक्षानिष्ठस्यापि पक्षे प्रसङ्गः, द्वितीये पक्षमात्रवृत्तेरपि सपक्षे प्रसङ्गः, तृतीये तु उभयोरपि उभयत्र प्रसङ्ग इत्युच्येत, तर्हि वन्हित्त्वमपि किमपर्वतनिष्ठवन्हिविशेषघटितमूर्ति, किंवा पर्वतनिष्ठवन्हिविशेषघटितमूर्ति, किंवा उभयविशेषघटितमूर्तीति विकल्प्य पूर्ववदोषो वक्तव्य इति ।
,
( भुवन ० ) - महाविद्या साध्यं स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठविशेषघटितमूर्तीति पूर्वोक्तं विकल्पै: शाशङ्कि - अथ पक्षीकृतेति । पक्षे शब्दादौ अनिष्ठः, अनित्ये घटादौ च निष्ठो घटत्वादियों धर्मः तेन घटिता विहिता मूर्तिः यस्य तत्तथा । किं वा पक्षमात्रेति । शब्दमात्रे निष्ठोऽनित्यनिष्ठश्च शब्दानित्यत्वे शब्दत्वादिधर्मः तेन घटितमूर्ति । किंचोभयेति । अनन्तरोक्त विकल्पद्वयस्य पक्षेतरवृत्तिपक्षमात्रवृत्तिरूपौ उभयविशेषाविति हृदयाभिप्रायः । तृतीयं भेदं बेभिदीति - तृतीये इति । पक्षनिष्ठपक्षमात्रनिष्ठयोरुभयोरप्युभयत्र पक्षे सपक्षे च प्रसङ्गः । " एकस्मिन् ये प्रसज्यन्ते द्वयोर्भावे कथं न ते " इति न्यायात् । अधात्रापि महाविद्यावादी परप्रयुक्तयुक्तिसाम्यमादिशति - तर्हीति । एतत्स्पष्टम् ।
अथ वन्हिमवव्याप्यपर्वतनिष्ठधूमवत्त्वानुभवः एव तदनन्तरभाविनीं वन्हित्त्ववन्हिविशेषावच्छिन्नपर्वतानुमितिं जनयिष्यति, किमपर्यवसानादिना इत्युच्यते, एवं तर्हि पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्याप्यपक्षीकृतशब्दनिष्ठमेयत्वानुभवः एव पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्य निष्ठाधिकरणत्वपक्षमात्रनिष्ठत्वे सति अनित्यनिष्ठविशेषावच्छिन्नपक्षीकृतशब्दानुमितिं जनयिष्यतीति संतोष्टव्यम् ।
( भुवन० ) - अथ वह्नीति । वह्निमत्त्वसाध्येन व्याप्यं यत्पर्वतनिष्ठं धूमवत्त्वसाधनं तस्यानुभव: एव, तस्मात्पर्वत निष्ठधूमवत्त्वानुभवादनन्तरभाविनीं वन्हित्त्ववन्हिविशेषाभ्यामवच्छिन्नो
१ किमपक्ष इति घ पुस्तकपाठः । २ येऽपक्षनि" इति घ पुस्तकपाठः ।
For Private And Personal Use Only