SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ भुवनसुन्दरसूरिकृतटीकायुतं नित्यनिष्ठसिद्धिस्तु कथम् । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठोऽपि वेधा, पक्षीकृतशब्दावृत्तिः पक्षीकृतशब्दमात्रवृत्तिर्वा । आद्यः पक्षे व्याहत इति द्वितीयस्य सिद्धिरिति चेत् । न । मा भूत्तावत्पक्षीकृतशब्दे व्याहतत्वेन पक्षीकृतशब्दानिष्ठानित्यनिष्ठविशेषसिद्धिरनुमानात् । पक्षमात्रनिष्ठानित्यनिठत्वसिद्धिस्तु दुर्घटैव । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठविशेषमात्रेणानुमितिपर्यवसानात् । (भुवन०) अथ धूमानुमानसमाननयेन पूर्वोपपादितामपि स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठविशेषसिद्धिं प्रत्युक्तयुक्तिपतिभिरपास्य स्वप्रौढताप्रकटनाय उररीकृत्यापि प्रकारान्तरेण अर्थान्तरतां प्रथयति-अस्तु वा वन्हीत्यादि । इदं हृदयम्-यथा अग्निमत्त्वविशेषकतया पर्वते वन्हि विशेषसिद्धिः, तथा स्वस्वतरेत्यादिसाध्यविशेषकतया पक्षे स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठविशेषसिद्धिरस्तु इति । पक्षीति । पक्षीकृतशब्दमात्रनिष्ठोऽनित्यनिष्ठश्च शब्दानित्यत्वे सति शब्दत्वादिः, तत्सिद्धिस्तु कथम् । स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठविशेषस्य घटत्वादेरपि संभवादित्यर्थः । पूर्वपक्षी भाषते-पक्षीकृतेति। अथाचार्यः परोक्तं निराचष्टे-न। मा भूदिति । पक्षीकृतशब्देऽनिष्ठो नित्यनिष्ठश्च घुटत्वादिरिति भावः । दुर्घटत्वे हेतुमाह-पक्षीति । स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठविशेषमात्रेणैवानुमितिः पर्यवसिता, न तु पक्षमात्रनिष्ठानित्यनिष्ठविशेषेणेति तत्त्वम् । न च पर्वतेऽपि यत्किञ्चिदन्हिविशेषसिद्धिरस्तु, पर्वतनिष्ठवन्हिविशेषसिद्धिस्तु कुत इति वाच्यम् । पर्वते वन्हिविशेषसिद्धिरस्तु, पर्वतनिष्ठश्च वन्हिर्न सिध्यतीत्यस्य व्याहतत्वेन उन्मत्तप्रलापत्वात् । (भुवन० )-आशङ्कां प्रादुष्कुर्वन् विघटयति-न चेत्यादि । धूमानुमानेऽपि पक्षितपर्वते यस्य कस्यचिद्वह्निविशेषस्य सिद्धथा अनुमितिपर्यवसानात्पर्वतनिष्ठाग्निविशेषसिद्धिर्न स्यादित्याशयः । सिध्यतु वा पक्षीकृतशब्दे पक्षीकृतशब्दमात्रवृत्तिरनित्यनिष्ठो धर्मः । अनित्यत्वसिद्धिस्तु कथम् । न हि स एवानित्यत्वमित्यादिपूर्वोक्तन्यायात् । (भुवन० )-पूर्वोक्तं पुनरण्यभ्युपगम्य अर्थान्तरतामेव भङ्गयतरेणाह-सिध्यतु वेति । युक्ति प्रयुङ्क्ते-नहीति । न हि स एव शब्दमात्रवृत्तिरनित्यनिष्ठो धर्मः एव अनित्यत्वम् । तस्य अनित्यत्वरूपत्वाभावात् । आदिपदेन ' नाप्यनित्यत्वं तस्य व्यापकमि'त्यादिपूर्वोक्तयुक्तिग्रहः । अथ पक्षीकृतशब्दमात्रवृत्तिरित्यनेन पक्षीकृतस्य आश्रयत्वं, तदन्यस्य चानाश्रयत्वं लब्धम् । अनित्यनिष्ट इत्यनेन च विवक्षितधर्माश्रयस्यानित्यत्वम्। विवक्षितधर्माश्रयश्च पक्षीकृतः शब्द एव । तदन्यस्य मात्रग्रहणेन व्यवच्छिन्न १ विशेषणमा' इति ज पुस्तकपाठः । २ विशेषताया” इति छ द पुस्तकपाठः। ३ "श्र पदत्ता' इति च पुस्तकपाठः। ४ 'पक्षीकृतशब्दस्य आन" इति घ पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy