________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१० ३
महाविद्याविडम्बनम् ।
( भुवन० ) — उत्तरार्धं व्याचष्टे - यद्वैवमिति । अत्र पूर्वोक्तः एव पक्षः । पूर्वोक्तसाध्यमध्यान्च स्वान्योन्याभावव्यतिरिक्तेति पदं त्यक्तं, अत्यन्ताभावेति चोपात्तम् । शेषं तदेव | हेतुश्चात्र यत्साध्यं तदन्यत्वादित्येव परं मेयत्वान्यत्वे सतीत्यधिकं पदम् । तच्च चेन्न गृह्येत, तर्हि मेयत्वे मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वान्यत्वरूपसाधनसत्त्वेऽपि मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वा श्रयत्वरूपसाध्याभावेन यत्र यत्र साधनं तत्र तत्र साध्यमिति व्यात्यभावान्मेयत्वेन व्यभिचारो भवेत् । तद्व्यावृत्त्यर्थ मेयत्वान्यत्वे इत्युपादाय । मेयत्वं चाशेषलक्षणम् । अन्येऽपि वाच्यत्वसत्त्वादयो ये केवलान्वयिधर्मास्तदन्यत्वे सतीति मन्तव्यम् । अन्यथा वाच्यत्वादिभिरपि व्यभिचारः केन निवार्येतेति भावार्थ: । यद्वा मेयनिवृत्ततेति । मेयान्निवृत्तो मेयनिवृत्तः, तस्य भावो मेयनिवृत्तता । एतावता मेयनिष्ठात्यन्ताभावप्रतियोगित्वं प्रोक्तम् । यतो मेयनिष्टात्यन्ताभावप्रतियोगी मेयनिवृत्त एवेति । मेयनिवृ तताया अधिकरणं त्वदीयं साध्यं महाविद्यासत्कम् । एतावता पक्षीकृतेत्यादिपक्षे मेयत्ववन्निष्टेत्यादि साध्यं सूचितम् । ततो भिन्नत्वादिति । ततो मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्ववर्मान्मेयत्वधर्माच्च भिन्नत्वादन्यत्वादित्यर्थः । अनेन मेयत्वान्यत्वेत्यादिहेतुरसूचि । अयं सर्वसव्यभि - चारत्वपक्षपरमार्थः———महाविद्यासाध्यं स्वस्मिन्वर्तते न वा । वर्तते चेत्तदा आत्माश्रयः । नो चेत्तर्हि स एव विपक्ष इति युक्तत्या महाविद्यासाध्ये महाविद्या साध्यवर्जिते तथा पूर्वानुमानाभ्यां मेयमध्ये महाविद्या साध्याभावसाधनात्, महाविद्यासाध्यरहिते घटादिमेये च मेयत्वस्य वर्तनात् अनैकान्तिकत्वमित्यर्थः ।
Acharya Shri Kailassagarsuri Gyanmandir
न चैवं संति सकलसाध्यानि पक्षीकृत्य सर्वहेतूनामनैकान्तिकत्वस्य साधयितुं शक्यत्वात्सर्वानुमानोच्छेद इति वाच्यम् । महाविद्यानुमानानैकान्तिकत्वस्य तत्साधनस्य च सकलानुमानानैकान्तिकत्वेन तत्साधनेन च व्यास्यभावेन ताभ्यां तयोरापादयितुमशक्यत्वात् । एवंविधानुमानानां चास्माभिः प्रामाण्यानङ्गीकारात् । महाविद्यावादिना चैवंविधानुमानप्रामाण्ये विप्रतिपत्तुमशक्यत्वादिति ।
2
१ न चैवं सक' । इति घ, ज पुस्तकपाठः ।
१५ महावि०
११३
( भुवन० ) - न वाच्यमित्यत्र हेतुमाचष्टे - महाविद्यानुमानानैकान्तिकत्वस्येति । महाविद्यानुमानानैकान्तिकत्वस्य प्राक्प्रदर्शितस्य सर्वानुमानानैकान्तिकत्वेन सह, तथा महाविद्यामानानैकान्तिकत्वसाधनस्य सर्वानुमानानैकान्तिकत्वसाधनेन सह व्याप्यभावात् । व्यात्यभावश्चानेत्थम् । न हि यत्र यत्र महाविद्यानुमानानैकान्तिकत्वं तत्र तत्र सकलानुमानानैकान्तिकत्वमिति तथा यत्र महाविद्यानुमानानैकान्तिकत्वसाधनं तत्र सर्वानुमानानैकान्तिकत्वसाधनमिति च व्याप्तिरस्ति । व्याप्त्यभावेन किं तदित्याह -- ताभ्यां तयोरापादयितुमिति । ताभ्यां महाविद्यानुमानानैकान्तिकत्वतत्साधनाभ्यां तयोः सर्वानुमानानैकान्तिकत्वतत्साधनयोरापादयितुमशक्यत्वात् । यतः आपादकेनापाद्यं तदैव आपाद्यते यद्यापाद्यापादकयोर्व्याप्तिः स्यात्, व्याप्तिमूलत्वात्तर्कस्य । द्वितीयं हेतुं ब्रूते
For Private And Personal Use Only