________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११४
भुवनसुन्दरसूरि कृतटीकायुतं
एवंविधेति । यद्धेतूनामनैकान्तिकत्वं साधयितुं शक्यते, तान्येवंविधानुमानानि महाविद्यानुमानादीनि तेषामस्माभिः प्रामाण्यं नाङ्गीक्रियते इत्याशयः ।
एवं पक्षीकृतशब्दतदितरवृत्तित्वरहिता नित्यनिष्ठाधिकरणत्वं मेयत्ववनिष्ठात्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतद्धर्मत्वरहिताधिकरणं, मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतन्निष्ठत्वरहिताधिकरणत्वान्यत्वात् घटव - सर्वमहाविद्यासु अनैकान्तिकत्वं साधनीयमिति ।
दित्यादिभिरपि
( भुवन ० ) - महाविद्यानैकान्तिकत्वसाधनाय तातयिकमनुमानं दर्शयति- पक्षीकृतशब्देति । पक्षीकृतेत्यादि महाविद्यासाध्यं पक्ष: । मेयत्ववन्निष्टात्यन्ताभावप्रतियोगित्वव्यतिरिक्तश्चासौ एतद्धर्मत्वरहितश्च तदाश्रयः इत्यन्वयः । मेयत्ववति मेये निष्ठो योऽत्यन्ताभावस्तस्य यत्प्रतियोगित्वं धर्मस्तस्मादन्यः । एतद्धर्माः पक्षीकृतमहा विद्यासाध्यधर्माः, तत्त्वेन रहितश्च धर्मः पक्षीकृतमहाविद्यासाध्यान्यधर्मो वा व्यतिरिक्तपदेन कर्षितं मेयत्ववन्निष्टात्यन्ताभावप्रतियोगित्वं वा । आद्यो व्याहतः । न हि पक्षान्यधर्मः पक्षे वर्तते इति सम्भवति । द्वितीयस्तु पक्षे सिध्यन क्वापि मेये पक्षीकृतमहाविद्यासाध्यस्याभावं साधयति । तथा च साधनवति साध्याभावान्मेयत्वस्य व्यभिचार पिशाचसंचारदुः संचरत्वम् । आद्यः पक्षः पक्षान्यधर्मरूपः सर्वत्र सपक्षे प्रयोजक: । मेयत्वादिव्यावृत्त्यर्थमेतद्धर्मत्वरहितग्रहणम् । एतद्धर्मत्वरहिताधिकरणमित्युक्ते व्याघातः, तद्व्यावृत्त्यर्थं मेयत्ववनिष्ठेत्यादिग्रहणम् । अत्र यत्साध्यं तदन्यत्वादिति हेतुरिति हेतुव्यावृत्त्यानि स्पष्टानि । इति सव्यभिचारत्वदोषेणाकुलिता सती । कुलस्त्रीव महाविद्या प्राणानुज्झति लज्जिता ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
( भुवन० ) - सव्यभिचारत्वमुपसंहरति- इति सव्यभिचारेति ।। १२ ।। अथ सत्प्रतिपक्षत्वं पक्षिराजस्य पक्षतिः ।
पराभवति दुर्वारमहाविद्याभुजङ्गमान् ॥ १३ ॥
( भुवन० ) - सत्प्रतिपक्षत्वदोषायोपक्रमते -- अथ सदति । सत्प्रतिपक्षत्वं प्रकरणसमत्वं, प्रत्यनुमानवाधितत्वमिति यावत् । पक्षिराजस्य गरुडस्य पक्षतिः पक्षमूलम् ॥ १३ ॥
धर्मी च त्वदभीष्टसाध्यरहितः साध्यस्तदेकाश्रितैः साध्याभाववदाश्रितत्वरहितैः साध्यप्रसिद्धिः पुनः ।
साध्यं ते स्वभिदान्यजन्मनिधनाऽनाक्रान्तभावस्फुरद्वेदस्य प्रतियोगितत्त्वविरहादित्यादिभिर्जायते ॥ १४ ॥ धर्मी पक्षीकृतः शब्दः । त्वदभीष्टं साध्यं, स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वादि । तद्रहितः तदत्यन्ताभाववान् । साध्यः अनुमेयः इत्यर्थः ।
१ "ति । यैः सर्वहेतुना इति च पुस्तकपाठः । २ सिध्यन्न क्वापि इति द पुस्तकपाठः ।
For Private And Personal Use Only