________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
भुवनसुन्दरसूरिकृतटीकायुतं सापेक्षत्वं वारयति मेयनिष्ठेतिपदेन । ननु कथमत्र व्याप्त्यवगमोऽत्राह-पक्षीकृतसाध्येत्यादि । घटान्योन्याभावः पटेऽस्ति, पटान्योन्याभावश्च घटे इत्येवंप्रकारेण सर्वेषां घटपटादीनामन्योन्याभावः प्रमेयेऽस्ति । ततस्तेषां घटपटादीनां सपक्षता । तेन साध्याभाववतीति । अयमाशयः । अनेनानुमानेन महाविद्यासाध्यस्य मेयेऽत्यन्ताभावोऽस्तीति साधितम् । मेयत्वहेतुस्तु तत्रापि मेये वर्तत इति साध्याभाववति गमनान्मेयत्वस्य अनैकान्तिकत्वम् । नन्वयमपि भवतो हेतुमहाविद्याया इव केवलान्वयी, ततोऽस्यापि हेतोरनैकान्तिकत्वं कथं नेत्याह-अयं हेतुरित्यादि । अयं मेयत्वादिति हेतुः । तर्हि भवद्भिः किं हेतूक्रियतेऽत्राह-अस्माकं त्विति । अत्र साध्यधर्मान्यत्वादिति हेतुः । व्या. प्तिश्च यत्स्वान्योन्याभावव्यतिरिक्तमेयनिष्ठाभावप्रतियोगित्वान्यत् तत्स्वान्योन्याभावव्यतिरिक्त मेयनिष्ठाभावप्रतियोगित्वाश्रयो, यथा घटादि । अयं भावः । सर्वेऽपि भावाः परस्परापेक्षया मेयनिष्टात्यन्ताभावप्रतियोगित्ववन्तः, तथा मेयनिष्ठौत्यन्ताभावप्रतियोगित्वरूपो यो धर्मस्तस्मादन्ये भिन्ना अपि भवन्ति । धर्मधर्मिणोभिन्नत्वात् ।
व्यतिरेकव्याप्तिस्तु यन्मेयनिष्ठाभावप्रतियोगित्वाश्रयो न भवति, तन्मयनिष्ठाभावप्रतियोगित्वान्यन्न भवति । यथा मेयनिष्ठाभावप्रतियोगित्वमेव, स्वात्मन्यवृत्तेः । तेन तस्मिन्नेव तदत्यन्ताभाववति मेयत्वस्य अनैकान्तिकत्व. मिति परिहृतम् ।
( भुवन० )-अस्यापि हेतोः केवलान्वयित्वेन कथं न व्यभिचाराशङ्केत्याहव्यतिरेकव्याप्तिरित्यादि । व्यतिरेकव्याप्ती मेयनिष्ठाभावप्रतियोगित्वं दृष्टान्तः । तच्च मेयनिष्ठा. भावप्रतियोगित्वस्याश्रयो न भवति, स्वस्मिन्स्वस्य अवृत्तेः । नापि मेयनिष्ठाभावप्रतियोगित्वं स्वस्मादन्यद्भवति । स्वस्य स्वतोऽन्यत्वे स्वरूपस्यैव हानेः । तेन तस्मिन्निति । तेनान्वयव्यतिरेकिहेतूकरणादिकारणेन, तस्मिन्नेव महाविद्यानुमानोत्थापकानुमानसाध्य एव स्वात्यन्ताभाववति वर्तनान्मेयत्वहेतोग्नैकान्तिकत्वं परेणोद्राव्यमानमाशङ्कय परिहृतमित्यर्थः ।
यद्वैवं प्रयोगः-पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्टाधिकरणत्वं मेयत्ववनिष्ठात्यन्ताभावप्रतियोगित्वाधिकरणं, मेयत्वान्यत्वे सति मेयत्ववन्निठात्यन्ताभावप्रतियोगित्वान्यत्वात् , घटवदिति । तदिदमुक्तं यदा मेयनिवृतताधिकरणं साध्यं त्वदीयं ततो, भिन्नत्वादिति साध्यवर्जिततनौ लब्धस्थितिमयता । मेयनिवृत्तता मेयनिष्ठात्यन्ताभावप्रतियोगित्वम् । ततो भिन्नत्वादिति । मेयनिष्ठात्यन्ताभावप्रतियोगित्वमेयत्वाभ्यामन्यत्वादित्यर्थः । एवं सर्वमहाविद्यासाध्यानि पक्षीकृत्य अनैकान्तिकत्वं साधनीयम् ।
१ निठान्योन्याभाव' इति च पुस्तक पाठः । २ 'निष्ठान्योन्याभाव" इति च पुस्तक पाठः ।
For Private And Personal Use Only