SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ महाविद्याविडम्बनम् । १११ विवक्षितम् । स्वभिदेति। स्वान्योन्याभावः । मेयनिहितो मेयाश्रितः । स चासौ अभावश्च । तेन अन्वितः । तस्य प्रतियोगी । तस्य भावः तत्त्वम् । तस्याश्रयः तद्धिकरणमित्यर्थः । प्रयोगस्तु-पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वान्योन्याभावव्यतिरिक्तमेयनिष्ठाभावप्रतियोगित्वाश्रयः, मेयत्वात् घटवदिति । पक्षीकृतसाध्यान्योन्याभावव्यतिरिक्तश्च सर्वेषामन्योन्याभावः प्रमेयेऽस्त्येवेति तेषां सपक्षता । प्रकृतसाध्यस्य चान्योन्याभावव्यतिरिक्तो मेयनिष्ठोऽभावः सिध्यन्नत्यन्ताभाव एव सिध्यति । तस्य साध्यस्य सदातनत्वेन प्राकप्रध्वंसाभावानुपपत्तेः । तेन साध्याभाववति गमनान्मेयत्वस्य सव्यभिचारत्वं अनैकान्तिकत्वापरपर्यायं दुर्वारम् । अयं हेतुः केवलान्वयिप्रामाण्यवादिनाम् । अस्माकं तु स्वान्योन्याभावव्यतिरिक्तमेयनिष्ठाभावप्रतियोगित्वान्यत्वादिति हेतुः । तदिदमुक्तं तद्भेदत इति । तदन्यत्वादित्यर्थः । तच्छब्देन च स्वान्योन्याभावव्यतिरिक्तमेयनिष्ठाभावप्रतियोगित्वं परामृश्यते। (भुवन० )-अनैकान्तिकत्वं दर्शयति-सर्वमेवेति । सर्व वस्तु घटात्मादि स्वनिष्ठो योऽत्यन्तभावस्तस्य प्रतियोगि। इदमत्राकूतम् । घटे यदि घटः स्यात्तात्माश्रयो बाधकतर्कः प्रसज्येत । 'अव्यवधानेन स्वापेक्षणमात्माश्रयः' इति तल्लक्षणात् । तस्माद्बटादौ स्वात्यन्ताभावो विद्यते एवेति सर्व वस्तु स्वात्यन्ताभावप्रतियोगि भवतीति द्वैतीयीकपरिच्छेदे किञ्चिदुक्तम् । तेन महाविद्येति । महाविद्यासाध्ये स्वस्वेतरेत्यादौ तस्य महाविद्यासाध्यस्यैव योऽत्यन्ताभावस्तद्वति मेयत्वहेतोवृत्तत्वादिति । अयमर्थः-महाविद्यासाध्ये पूर्वोक्तयुक्त्या स्वात्यन्ताभावोऽस्ति । तथा च मेयत्वस्य हेतोः स्वात्यन्ताभाववति महाविद्यासाध्यरूपे विपक्षे वर्तनादनैकान्तिकत्वम् । 'पक्षसपक्षविपक्षवृत्तिरनैकान्तिकः' इति तल्लक्षणात् । ___ अथ प्रकारान्तरेण अनैकान्तिकत्वं दिदर्शयिपुः पद्यमाह-वत्साध्यमिति । वादिन ,त्वत्साध्य स्वस्वेतरेत्यादिकं महाविद्यासाध्यं, स्वभिदान्यमेयनिहिताभावान्वितत्वाश्रयः । स्वभिदाया: स्वस्वान्योन्याभावादन्यः स्वभिदान्यः । स चासौ मेयनिहितो मेयाश्रितोऽभावश्च, तेनान्वितः तत्प्रतियोगी, तस्य भावस्तत्त्वं, तदाश्रय इत्यर्थः ।। ११ ॥ ___ पद्यं व्याचरीकरीति-त्वत्साध्यमिति । तेनान्वित इति । ननु मेयाश्रिताभावान्वितो मेय एव, तत्कथं स एव तस्य प्रतियोगी । उच्यते-स्वस्मिन्स्वस्यावृत्तेर्मेयाश्रिताभावस्य मेयः प्रतियोग्येवेति तेनान्वितस्तस्य प्रतियोगी स्यादेवेति । प्रयोग रचयति-प्रयोगस्त्विति । पक्षीकृतेत्यादिमहाविद्यासाध्यं पक्षः । मेयेषु निष्ठश्चासौ अभावश्च मेयनिष्ठाभावः । स्वान्योन्याभावन्यतिरिक्तश्चासौ मेयनिष्ठाभावश्चेति विग्रहः । महाविद्यासाध्यस्य स्वान्योन्याभावप्रतियोगित्वेन सिद्धसाध्यता स्यात, तां निवारयति स्वान्योन्याभावव्यतिरिक्तेति पदेन । एवंविधोऽभावः कास्तीति For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy