________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
भुवनसुन्दरसूरिकृतटीकायुतं तथा प्रकृतहेत्वन्य इत्यपि विशेषणमुपादेयम् । तथा च साध्याभावसाधकरतुल्यबल: प्रकृतहेवन्यः प्रतिपक्ष इति प्रतिपक्षलक्षणमुक्तं भवति । प्रकृतहेत्वन्यः इति विशेषणाङ्गीकरणे हेतुमाहप्रर्वाचार्यैरिति । तस्यैव मेयत्वादेरेव, तं प्रति मेयत्वादिकमेव प्रति प्रतिपक्षत्वेन पूर्वाचार्यैरव्यवहारात् । पूर्वाचार्याणां हि पूर्वोक्तहेत्वन्यस्मिन्नेव प्रतिपक्षत्वव्यवहारोऽस्ति नतु मेयत्वादेरेव मेयत्वादिकं प्रतीतिभावार्थः । उपजीव्यैरिति । अयमभिप्रायः । पूर्वाचार्यै: प्रकृतहेत्वन्य इति विशेषणमुपादायि । शिवादित्यमिश्राश्च नोपाददते इति यः उपजीन्यैः पूर्वाचायः सह भवतां कलहस्तेन कृतम् । एतावता पूर्वोक्तहेतोः सत्प्रतिपक्षत्वमुत्थापितं, अभीष्टविरुद्धत्वं तु स्थापितं भवति ।
महाविद्यान्तरेष्वपि अनित्यपदस्थाने अनित्यत्वात्यन्ताभावपदं प्रक्षिप्य साध्यप्रतीत्यपर्यवसानादनित्यत्वात्यन्ताभावसाधकत्वमुपपाद्य अभीष्टविरुद्धता द्रष्टव्येति।
(भुवन० )-उक्तमन्यत्रातिदिशति । महाविद्येति । अयं शब्द: स्वस्वेतरवृत्तित्वरहितानित्यवृत्तिधर्मवानित्यादौ अनित्यत्ववृत्तिपदस्थाने नित्यवृत्तिपदं प्रयुज्यत इत्यर्थः ।
अपि सर्वगुणोऽभीष्टविरोधेन विनश्यति ।
किं पुनर्दोषसंघातैर्महाविद्या समाकुला ॥९॥ ( भुवन० )-अभीष्टविरुद्धतामुपसंहरति-अपि सर्वगुण इति । सर्वगुणोऽपि हेतुरभीटविरोधदोषेण विनश्यति । अन्योऽपि जनः सर्वगुणोऽप्यभीष्टस्य मित्रादेविरोधेन विनश्यत्येव । महाविद्याया दोषसंघातैः समाकुलायास्तु किमुच्यते ।। ९ ।।
अथ सव्यभिचारत्वमुन्मीलत्कुलिशंश्रियम् ।
महाविद्यामहाभूभृत्पक्षच्छेदाय सज्जते ॥१०॥ (भुवन० )-अनैकान्तिकतोद्भावनाय प्रक्रमते-अथ सव्यभिचारत्वमिति । सव्यभिचारत्वमनैकान्तिकत्वं महाविद्यामहाद्रिपक्षच्छेदाय सज्जते । किं कुर्वत् । उन्मीलत् । अन्तर्भूतण्यर्थत्वादुन्मीलयत् । कां कुलिशश्रियम् । यद्वोन्मीलत्कुलिशद्युतीति पदमवगन्तव्यम् । तथा च सव्यभिचारत्वस्यैतद्विशेषणम् ।। १० ।।।
सर्वमेव वस्तु स्वनिष्ठात्यन्ताभावप्रतियोगीत्युक्तम् । तेन महाविद्यासाध्ये तदत्यन्ताभाववति मेयत्वस्य गतत्वादनैकान्तिकत्वमिति । किञ्च,
त्वत्साध्यं स्वभिदान्यमेयनिहिताऽभावान्वितत्वाश्रयो
मेयत्वादिति केवलान्वयिमतेऽस्माकं तु तद्भेदतः । यहा मेयनिवृत्तताधिकरणं साध्यं त्वदीयं ततो
भिन्नत्वादिति साध्यवर्जिततनौ लब्धस्थितिर्मयता॥ ११॥ त्वत्साध्यमिति । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वादिकं
१ कुलिशयुति । इति घ पुस्तकपाठः ।
For Private And Personal Use Only