SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ महाविद्याविडम्बनम् । (भुवन० )-श्लोकाध व्याचाख्याति-साध्यं च द्विविधमित्यादि । व्यापकत्वेनाभिमतं महाविद्यासाध्यम् । व्यापकं महाविद्यासाध्यं, तस्य या प्रतीतिस्तस्याः अपर्यवसानेन लभ्यमनित्यत्वादि । न चानयोरिति । अनयोः साध्ययोः प्रतिवादिना महाविद्यानिराकर्ता पक्षे शब्दादौ निष्ठतया अनङ्गीकृतयोर्वादिना महाविद्यावादिना तन्निष्ठतया पक्षनिष्ठतया बोध्यमानयोः न च साध्यत्वे कश्चिद्विशेषोऽस्ति । यतः उभयमपि साध्यतयोच्यते । प्रकारान्तरेणाशङ्कते-व्यापकत्वाभिमतेति । व्यापकत्वेनाभिमतं महाविद्यासाध्यं तस्य योऽभावस्तेन व्याप्यत्वं हेतोस्तव्यापकविरुद्धः इत्यपरपर्यायं विरुद्धहेतोविशेषलक्षणमित्याशयः । आचार्यः प्रत्युत्तरयति-तीत्यादि । अभिप्रेतः साध्यविशे. पोऽनित्यत्वादिः, तदभावसाधको विरुद्ध इत्यभिप्राय: । व्यापकाभिमतेति । व्यापकं यदभिमतं महाविद्यासाध्यमित्यर्थः । तर्हि संशयः एव स्यान्न निर्णयोऽत्राह-यद्वा मा भूदिति । सत्प्रतिपक्ष एवायं, न विरुडो,न हेत्वाभासान्तरमिति शिवादित्यमिश्राः। तन्न । साध्याभावसाधकतुल्यबलद्वितीयहेतावेव पूर्वाचार्याणांप्रतिपक्षव्यवहारात , साध्याभावसाधकत्वमात्रेण प्रतिपक्षत्वे विरुद्धस्यापि प्रतिपक्षत्वप्रसङ्गात् । तुल्यबलत्वाभावान्न विरुद्ध प्रतिपक्षो बाधवदिति चेत् । अथ तुल्यबलत्वविशेषणं किमर्थम् । विरुडादिनिवृत्त्यर्थमिति चेत् । अथ विरुद्धादयः किमर्थ निवाः । पूर्वाचार्याणां तत्र प्रतिपक्षव्यवहाराभावादिति चेत् । एवं तर्हि प्रकृतहेत्वन्यत्वमपि विशेषणमुपादेयमेव। पूर्वाचार्यैस्तस्यैव तं प्रति प्रतिपक्षत्वेन अव्यवहारादित्यलमुपजीव्यैः सह कलहेन । ( भुवन० )-परमतं प्रकटयति-सत्प्रतिपक्ष इति । अयं हेतुः प्रकरणसम एवेति शिवादित्यमिश्राः प्राहुरिति । परमतं निरस्यति-तन्न । साध्याभावेति । साध्याभावसाधको यः पूर्वहेतोस्तुल्यबलो द्वितीयहेतुस्तत्रैर पूर्वाचार्याणां सत्प्रतिपक्षत्वव्यवहारात् । इदं हृदयम् । पूर्वानुमानोक्तहेतुना मेयत्वादिना अनित्यत्वादिसाध्यसाधकेन तुल्यबलः, तस्मान्मेयत्वादेश्च यो द्वितीयहेतुरभिधेयत्वादिः पूर्वोक्तानित्यत्वादिसाध्याभावसाधकः स एव सत्प्रतिपक्षः । साध्याभावसाधकस्यैव प्रतिपक्षत्वेऽतिप्रसङ्गमाह-साध्याभावेति । साध्याभावसाधक एव यदि प्रतिपक्षः, तर्हि विरुद्धोऽपि साध्याभावसाधकत्वात्प्रतिपक्षः प्रसज्येत । परः शङ्कते-तुल्यबलेति । साध्याभावसाधकोऽपि तुल्यबल एव प्रतिपक्षो नातुल्यबल:, तस्मात्तुल्यबलत्वाभावाद्विरुद्धः प्रतिपक्षो नोच्यते, यथा बाधः कालात्ययापदिष्टस्तुल्यबलत्वाभावान्न प्रतिपक्षः । प्रश्नपूर्वकं परिहरतिअथ तुल्येत्यादि । साध्याभावसाधकस्तुल्यबल: प्रतिपक्ष इति भवत्संमतलक्षणे तुल्यबलत्वविशेषणं किमर्थमित्यर्थः । प्रतिबन्दीमुपादत्ते-एवं तीति । प्रकृतो हेतुर्मेयत्वादिर्वाद्युक्तः, तस्मादन्योऽभिधेयत्वादिःसत्त्वम् । एतत्तत्त्वम्-यथा प्रतिपक्षलक्षणे तुल्यबलत्वविशेषणमुपात्तम्, १ 'बाधः अधिकवलप्रत्यनुमानस्तुल्य इति च पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy