SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ भुवनसुन्दरसूरिकृतटीकायुतं प्युपाधित्वेऽतिप्रसङ्गस्य कः शास्ता शिक्षयिता । अयमभिप्राय:-कस्मिंश्चिदनुमाने सत्योपाधावपि केनाप्युद्भावितेऽतिप्रसङ्गः कथं निवार्यः । ननु अत्र अयं क्षब्दः पक्षः । एतयतिरिक्तं च सर्वं सपक्षः । तेन विपक्षरूपव्यावाभावात् अश्रावणत्वस्य पक्षेतरत्वमित्यत आह___ "शब्दत्वादि निवर्त्यमस्ति न ततः पक्षेतरत्वभ्रमः” इति। यत् विप्रतिपन्नं प्रति पक्षनिष्टतया वादिना साध्यते तत्साध्यम् । तदभाववांश्च विपक्षः उपाधे ावर्त्यः । तथाविधश्च अश्रावणत्वस्य शब्दत्वादिरेव । तेन व्यावय॑सत्वान्न पक्षेतरत्वभ्रान्तिः कतव्या। ( भुवन०)-श्लोकतृतीयपादावताराय आशङ्कां कुरुते-नन्वत्रेति । पक्षेतरत्वमिति । विमता हिंसा अधर्मसाधनं हिंसात्वात् ग्लेच्छहिंसावदित्यत्र निषिद्धत्वमुपाधिः । अस्योपाधेः संध्यावन्दनादिर्विपक्षो व्यावर्त्यः। संध्यावन्दनादौ निषद्धत्वाभावात् । अत्र च महाविद्यायां विपक्षस्यैवाभावाद्विपक्षव्यावर्तनाभावेन पक्षः एव व्यावोऽस्ति । तथा चोपाधेः पक्षेतरत्वं दोषः । शब्दत्वादीति । अत्र शब्दत्वाद्युपाधेर्निवय॑मस्ति । यतोऽत्राश्रावणत्वमुपाधिः । स च शब्दत्वादेविपक्षाव्यावृत्त एव, शब्दत्वेऽश्रावणत्वाभावादित्युपाधेः शब्दत्वादिविपक्षो व्यावर्त्यः । तस्मात्पक्षेतरत्वभ्रमो न कार्य इत्याशयः । श्लोकतृतीयपादं व्याख्याति । यत विप्रतिपन्नमिति । विप्रतिपन्नं प्रतिवादिनं प्रति यदनित्यत्वादि पक्षे शब्दादौ निष्ठतया वादिना साध्यते तत्साध्यम् । तस्य साध्यस्याभावो नित्यत्वं, तद्वांश्च नित्यो विपक्षः । उपाधेावर्त्य इति । यत्र कुत्राप्युपाधिः स्यात्, स विपक्षे पक्षे च वर्तमानो न विलोक्यते । तथा च सति तस्योपार्विपक्ष: पक्षश्च व्यावो भवतीति सर्वत्रोपाधेः रीतिः । यत्र च विपक्षो व्यावत्यों न भवेत्तत्र केवलपक्षस्यैव व्यावर्तनादुपाधेः पक्षेतरत्वं दोषः । अत्र च तथा नाशङ्कनीयम् । शब्दत्वादिविपक्षादश्रावणत्वोपाधावृत्तत्वादित्यर्थः । नामप्राहमुपाधिव्यावर्त्यमाह-तथाविधश्चेति । यत् वादिनो व्यापकत्वेनाभिमतं तदभाववान् विपक्षः उपाधिव्यावयों न त्वन्य इति चेत् । न । सर्वत्र विप्रतिपत्तिगोचरसाध्याभाववतो व्यावर्त्यस्वम् । तथाभूतव्यावर्त्यरहितस्योपाधेः पक्षेतरत्वमित्येतावतैव सकलव्यवस्थोपपत्ती, व्यापकीभूतसाध्याभाववतो व्यावर्त्यत्वं, तथाभूतव्यावर्त्यरहितस्य च पक्षेतरत्वमित्यादिव्यवस्थाया गरीयस्था निष्पमाणकत्वादिति। (भुवन० )-महाविद्यावादी शङ्कते—यद्वादिनो व्यापकेति । व्यापकत्वेन साध्यत्वेनाभिमत महाविद्यासाध्यं स्वस्वेतरेत्यादिरूपं तदभाववान्विपक्षः उपाधिना व्यावत्यों, न त्वन्यो भवदभिमतो मुख्यानुमानसाध्यविपक्षः इति भावः । आचार्यः उत्तरयति-न सर्वत्रेति । विप्रतिपत्तिगोचरं यत्साध्यमनित्यत्वादि तदभावो नित्यत्वं, तद्वतो नित्यस्य व्यावय॑त्वम्। व्यापकीभूतेति । १ 'उपाधेा ' इति घ पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy