________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प० ३
महाविद्याविडम्बनम् |
१०५
व्यापकीभूतसाध्यं महाविद्यासत्कं तदभाववतो व्यावर्त्यत्वमित्यादिव्यवस्था गरीयसी निष्प्रमाणका । कल्पनालाघवे सति कल्पनागौरवबाधकतर्क सद्भावात् ।
ननु अस्तु पक्षं पक्षीकृत्य प्रवर्तमानासु महाविद्यासु अयमुपाधिः । सपक्षविपक्षादीन् पक्षीकृत्य प्रवर्तमानमहाविद्यास्तु उपाधिविधुरा एवेत्यत आह" सर्वत्रैवमुपाधिरप्रतिहतः, " इति
अयं घटः एतद्वद्वैतच्छब्दव्यतिरिक्तत्वरहितानित्यान्यः मेयत्वादित्यत्र अश्रावणत्वमुपाधिः । एतच्छन्दनिष्ठतया परं प्रति साध्यस्य अनित्यत्वस्य व्यापकत्वात् । मेयत्वसाधनाव्यापकत्वाच्च । अनित्यत्वरूपसाध्यरहितशब्दत्वादिव्यावसत्त्वेन पक्षेतरत्वानाक्रान्तत्वाच्चेति । तथा गगनं शब्देतरानित्यनित्यवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादित्यत्रापि अश्रावणत्वमुपाधिः । एतच्छन्दनिष्टत्वेन साधयितुमभिप्रेतस्य अनित्यत्वस्य व्यापकत्वात्, मेयत्वाव्यापकत्वाच्च । सिवाधयिषितानित्यत्वाभाववतः शब्दत्वादेर्व्यावर्त्यस्य सत्त्वेन पक्षेतरत्वानाक्रान्तत्वाच्चेति । एवं साध्यादीनपि पक्षीकृत्य शब्दानित्यत्वे प्रवर्तमानासु महाविद्यास्वयमुपाधिर्द्रष्टव्यः ।
ननु अस्तु नाम अनित्यत्वे प्रवर्तमानासु महाविद्यासु अश्रावणत्वमुपाधिः । अन्वयव्यतिरेकिसाध्यान्तरप्रवर्तमानासु न कश्चिदुपाधिरित्यत्राप्येतदेवोत्तरम् । सर्वत्रैवमुपाधिरप्रतिहत इति । यत्र यत्रान्वयव्यतिरेकिणि हेतौ यो य उपाधिः, तत्तत्साध्यप्रवर्तमान महाविद्यासु स स एवोपाधिः पूर्वन्यायेन द्रष्टव्यः । यः पुनरन्वयव्यतिरेकी निरुपाधिक एव, तत्साध्यप्रवर्तमानमहाविद्याप्यनोपाधिकी एवास्तु । किं नः छिन्नम् । तदप्रामाण्यस्य वक्ष्यमाणदोषैरपि सिद्धेः ।
( भुवन० ) - तुरीयपादभागमवतारयितुं चोदयति । नन्वस्त्विति । इत आरभ्य एतदेवो - तरं सर्वत्रैवमुपाधिरप्रतिहत इतियावत्सुगममिति न लेशतोऽपि व्याचक्रे । ननु स श्यामो मैत्रपुत्रत्वात्संप्रतिपन्नपुत्रवदित्यन्वयव्यतिरेकिणि सोऽयं स्वस्वेतरवृत्तित्वरहितश्यामनिष्ठाधिकरणं मेयत्वाद्धटात्मादिवदित्यस्यां महाविद्यायाम श्रावणत्वस्य अनुपाधित्वादेतदेवोत्तरमित्ययुक्तमुक्तमित्याशङ्कयाह - यत्र यत्रान्वयीति । यत्र यत्र अन्वयव्यतिरेकिणि मूलानुमान हेतौ यः उपाधिः । तत्तदिति । तत्तदन्वयव्यतिरेकिहेतुसाध्यप्रवर्तमानमहाविद्यासु स एव मूलानुमानोपाधिरेव द्रष्टव्यः । श्यामत्व साध्यप्रवर्तमान महाविद्यायां च शाकाद्याहारजन्यत्वं मेयत्वसाधनाव्यापकं पक्षनिष्ठतया विप्रतिपन्नश्यामत्वसाध्यव्यापकं दुग्धाद्यश्यामव्यावर्त्यविशिष्टमुपाधिः । परमाणुर्नित्योऽनादिभावत्वात्
१ स्वश्रवणत्वम्' इति घ पुस्तकपाठः ।
For Private And Personal Use Only