SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प०३ महाविद्याविडम्बनम् । १०३ व्याप्यनिवृत्तेरावश्यकत्वेन पक्षीकृतशब्दे एव मेयत्वपक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वयोव्योप्तिभङ्गादित्यवेहि । इदमेव चान्यत्राप्युपाधिदूषणत्वबीजम् । (भुवन० )-आशङ्कते-कथमिति । अस्योपाधेरित्यर्थः । आचार्यः प्रत्याचष्टे-अश्रावणत्वेति । अश्रावणत्वं यः उपाधिर्व्यापकस्तस्य निवृत्तावनित्यत्वं साध्यरूपं व्याप्यं निवर्तत एव । तथा हि-यत्र यत्र अनित्यत्वं तत्र तत्र अपात्रणत्वं यथा घटादौ । यत्राश्रावणत्वं न स्यात्तत्रानित्य. त्वमपि न, यथा शब्दत्वे नित्यत्वेन वादिप्रतिवादिनोः संमते । एतावता उपाधिनिवर्तमानः साव्य गृहीत्वा निवृत्तः । किं तह-त्याह-पक्षीकृतशब्दे इति । पक्षीकृतशब्दे एव यन्मेयत्वसाधनं पक्षी कृतेत्यादिमहाविद्यासाध्यं च तयोर्व्याप्तिभङ्गात् । अयमर्थः । उपाधिधर्मो व्याप्तिः साधने चकास्ति, जपापुष्पधर्मो लौहित्यं स्फटिकोपल इवेत्युपाधिना साध्यसाधनयोर्व्याप्तिभङ्गः । इदमेव चेति । अन्यत्राप्यनुमानेषूपाधेर्दूषणत्वमेवमेवेति भावः । यद्वा स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं अनित्यत्वेन विशेष्य अश्रावणत्वमुपाधिर्वक्तव्यः। तथाहि-यत् एतच्छब्दैतच्छब्देतरनिष्ठत्वरहितानित्यनिष्ठाधिकरणत्वे सति अनित्यं, तत् अश्रावणमिति साध्यव्यापकत्वम् । अश्रावणत्वं च मेयत्ववत् शब्दत्वादिनिष्ठात्यन्ताभावप्रतियोगीति साधनाव्यापकम् । तेन भवत्युपाधिः । न चाभिप्रेतसाध्यव्यापकस्य विशेषितसाध्यव्यापकस्य चोपाधित्वेऽतिप्रसङ्गः । एवंविधोपाधिमतामनुमानत्वानङ्गीकारात् । तद्रहितेषु च स्वतः एवातिप्रसङ्गनिवृत्तिरिति । अन्यथा व्यापकत्वाभिमतसाध्यव्यापकस्यापि उपाधित्वे प्रवर्तमानस्यातिप्रसङ्गस्य कः शास्ता इति । (भुवन०)-प्रकारान्तरेणोपाधि व्युत्पादयति-यद्वा स्वस्वेतरेति । स्वस्वेतरेत्यादिमहा-- विद्यासाध्यमनित्यत्वेन विशिष्टं कृत्वा अश्रावणत्वमुपाधिवक्तव्यः । एतदेवोपाधेः साध्यव्यापकत्वदर्शनपूर्वकं दर्शयति-तथा हीति । यदेतच्छब्देत्यादिमहाविद्यासाध्यवत्त्वे सति अनित्यं तदश्रावणं, यथा घटादि । उपाधेः साध्यव्यापकतां प्रदर्श्य साधनाव्यापकतामाह-अश्रावणत्वं चेति । मेयत्ववद्यच्छन्दत्वादि तत्र निष्ठो योऽत्यन्ताभावस्तस्य प्रतियोगि अश्रावणत्वम् । एतावता मेयत्वसाधनवति शब्दत्वादावश्रावणत्वरूपोपाधेरत्यन्ताभावः । शब्दमेयत्वसद्भावेऽप्यश्रावणत्वस्य असद्धावात् । आशङ्कापूर्व परिहरति-न चाभिप्रेतेति । अभिप्रेतसाध्यमनित्यत्वम्, विशेषितसाध्यं महा विद्यासत्कम् । हे तुमाह-एवंविधेति । एवंविधोपाधिमतामनुमानानामित्यर्थः । तदहितेष्विति । एवंविधोपाधिरहितेषु स्वयमेवातिप्रसङ्गनिवृत्तेः । अन्यथेति । एवंविधोपाधिरहितानुमानेष्वपि अतिप्रसङ्गकरणे । व्यापकत्वाभिमतेति । व्यापकत्वेनाभिमतं मुख्यं यत्साध्यमग्निमत्त्वादि तद्व्यापकस्या १ अस्याग्रे ' अत्र साध्यसाधनयोाप्तिः । सा अश्रावणत्वेन सोपाधिका' इत्यधिकं च पुस्तके दृश्यते २ पुष्पलौहि इति च पुस्तकपाठः । ३ वपि अप्रसङ्ग इति छ द पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy