SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५० १ महाविद्याविडम्बनम् | आह---. यति - अनित्यनिष्ठेति । अनित्यनिष्ठाधिकरणमित्युक्ते मेयत्वादिना अर्थान्तरत्वं वारयितुमाहनित्यवृत्तित्वरहितति । नित्यवृत्तित्वरहितानित्यनिष्ठाधिकरणमित्युक्ते व्याघातोऽत उक्तम्अनित्यनित्यवृत्तित्वरहितेति । अनित्यनित्यवृत्तित्वरहिताविकरणमित्युक्तौ नित्यत्वेनार्थान्तरत्वमत - अनित्यनिष्ठेति । अनित्यवृत्तित्वरहिता नित्यनिष्ठाधिकरणमित्युक्ते व्याघातः स्यादित्युक्तं अनित्यनित्यवृत्तित्वरहितेति । अनित्यनित्यवृत्तित्वरहिता नित्यनिष्ठाधिकरणमित्युक्ते व्याघातः, यस्य कस्यचिदपि गगनधर्मस्यानित्यनित्यवृत्तित्वरहितस्य नित्यमात्रवृत्तेर नित्यनिष्ठत्वायोगादत उक्तम् - शब्दतरेति । न चैवं व्याघातः । शब्दानित्यत्त्रोपगमेन गगनशब्दमात्रवृत्तेर्गगनशब्दसंवन्धादेरुपगमे प्रतिज्ञात्वार्थपर्यवसानात् । शब्देतरा नित्यनित्यवृत्तित्वरहितानित्यनिष्ठः तु अनित्येषु शब्दे - तरानित्यत्वमस्ति । नित्यानां पक्ष तुल्यत्वेन सपक्षत्वाभाव इति व्यात्यनुगमो द्रष्टव्यः । विशेषणकृत्यमाह - अनित्यनिष्ठेति । नित्ये गगनेऽनित्यवृत्तित्वधर्मस्तथापि व्याहत एवेत्यत आह- यद्यपीति । गगनेऽव्याहत इति । अव्याहत इति च्छेदः ॥ १ ॥ १ ( भुवन० ) - तत्र प्रथमं अपक्षसाध्यवद्वृत्तिविपक्षान्वयि यन्न तत् । साध्यवद्वृत्तितायुक्तं साध्यते साध्यवर्जिते ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ५५ इति कारिकामाश्रित्य या प्रवृत्ता तामाह – गगनमेतच्छब्देत शनित्यानित्येत्यादि । व्याख्या | गगनं पक्ष: । एतच्छब्दादितरे येऽनित्या एतच्छब्देतरा नित्याः । ते च नित्याश्च एतच्छदेवरा नित्यनित्या: । तत्र वृत्तिर्येषां ते एतच्छब्देतरानित्यनित्यवृत्तयः तेषां भावस्तत्त्वं । तेन रहितः । अनित्ये निष्ठा यस्य सोऽनित्यनिष्ठः । शब्देतरानित्यनित्यवृत्तित्वरहितश्चासौ अनित्यनिष्ठश्च तस्याश्रयो गगनमित्यर्थः । एवंविधचात्र धर्मो गगनशब्दमात्रवृत्तिर्गगनशब्दसंबन्धादिर्वा विश्वप्रतियोगिकः शब्दा काशान्योन्याभावादिर्वा । स च नित्ये गगन एव वर्तनाच्छदेतनित्ये च कस्मिंश्चिदप्यवर्तनाच्छन्देतरा नित्यनित्यरूपयुगलवृत्तित्वरहित एव । स च धर्मोऽनित्यवृत्तिस्तदैव स्यात्, यदि शब्दोऽनित्यः स्यात् । तस्य च धर्मस्य गगने वर्तनेऽपि गगनस्य नित्यत्वेनोभयवादिसं मतत्वादनित्यवृत्तित्वं न स्यात् । तस्माद्ले पादुकान्यायेनोभयोर्विवादापन्नत्वाच्छन्दस्यैवानित्यत्वमङ्गीकार्यम् । एवंविधात्र धर्मो मेयत्वसत्त्ववाच्यत्वादिर्न घते । तस्य नित्यानित्यरूपयुगलवृत्तित्वात् । नित्यत्वादिश्वानित्यवृत्तीति पदेन निरस्त: । अनित्यमात्रवृत्तिरनित्यत्वादिश्च पक्षितगगने नित्ये न सम्भवति । तस्मात्पूर्वोक्तो गगनशब्द संबन्धादिरेव सायधर्मोऽत्र ज्ञेयः । अत्र च दृष्टान्तीक्रियमाणेषु घटादिषु अनित्येषु घटत्वादिः शब्देतरा नित्यत्वादिर्वा धर्मा मन्तव्यः । नित्यानां शब्दस्य चात्र पक्षतुल्यत्वेन सपक्षत्वाभावो न दोषपोषायेति । तथैव च प्रतिपाद्यति - अत्र वक्ष्यमाणासु चेत्यादि । घट इत्युपलक्षणं । तेन पटस्तम्भादयस्तद्धर्माच सर्वेऽप्यनित्या ग्राह्याः । अथाद्यं विशेषणं परित्यज्य व्यावृत्तिचिन्तां करोति - अनित्यनिष्ठेत्यादि । तथोक्ते च मेयत्वादिभिर्नित्यत्वरूपाऽर्थान्तरता स्यात् । तन्निवृत्यर्थमेतच्छब्देतरानित्येत्यादि । तथा १ 'प्रतिज्ञातार्थप' इति स्यात् (?) ।
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy