________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं च मेयत्वादीनां शब्देतरानित्यनित्यवृत्तित्वेन रहितत्वानुपपत्तेार्थान्तरता । तदवान्तरिति । नित्यत्वादवान्तरैर्गगनैकत्वादिभिरित्यर्थः । तथाप्येतच्छन्देतरेत्यादि । यद्यपि नित्यवृत्तित्वरहितानित्यनिष्ठाधिकरणमित्युक्ते व्याघातः स्यात्, तथापि सम्पूर्णप्रथमविशेषणविचारणायां युगलावृत्ति त्वेनैवंविधो धर्मो गगने उपपद्यते एव । यस्य कस्यचिद्गगनधर्मस्येति । गगनगतैकत्वनित्यत्वव्यापकत्वादेर्गगनधर्मस्य नित्यनिष्ठत्वेन तद्रहितत्वानुपपत्तेाघात इत्यर्थः । अप्रसिद्ध विशेषणत्वं भावयतिनहीत्यादि । अत्र दृष्टान्ते घटादौ एवंविवस्य धर्मस्याप्रसिद्धता । यद्यपि शब्दस्यानित्यत्वे एवंविधो धर्मः शब्दानित्यत्वादिः शब्दादितरे ये भावा अनित्यास्तनिष्ठत्वरहितो विद्यते, अनित्यशब्दवृत्तित्वाधिकरणं च, तथापि शब्दानित्यत्वसिद्धेः पूर्वमन्यत्र घटपटादावेवंविधधर्मो नोपपद्यते । तेनाप्रसिद्धविशेषणत्वमित्यर्थः ।
एतच्छब्देतरानित्यनिष्ठत्वरहितानित्यनिष्ठाप्रसिद्धत्वेऽपि, एतच्छब्देतरानित्यनित्यनिष्ठत्वरहितानित्यनिष्ठस्य एतच्छब्देतरानित्यत्वादेः सुप्रसिद्धत्वात् । एतच्छब्देतरानित्यनित्यवृत्तित्वरहितो धर्मः १ एतच्छब्देतरानित्यमात्रवृत्तिर्वा, २ नित्यमात्रवृत्तिा, ३ एतच्छन्दैतच्छब्देतरानित्यमात्रवृत्तिा , ४ एतच्छन्दमात्रवृत्तिर्वा, ५ एतच्छब्दगगनव्यतिरिक्तनित्यमात्रवृत्तिर्वा, ६ एतच्छब्दगगनमात्रवृत्तिर्वा । प्रथमतृतीयचतुर्थपञ्चमा गगने व्याहताः। द्वितीयस्तु अनित्यनिष्ठग्रहणेन दूरं निरस्तः । षष्ठस्य तु अनित्यनिष्ठत्वमेतच्छब्दानित्यत्वमन्तर्भाव्यैव सिध्यति । गगननित्यत्वस्योभयवादिसिद्वत्वादित्येतच्छब्दानित्यत्वसिद्धिः ॥ १॥ __(आनं०)-शब्दानित्यत्वमन्तरेण व्यापकापर्यवसानं दर्शयितुमाह-एसच्छब्देतरानित्यनित्यनिष्ठत्वरहितो धर्म इति ।
(भुवन० )-अथ पक्षशब्दानित्यत्वमन्तरेण साध्यापर्यवसानं दर्शयितुं आद्यविशेषणविचारणोपपन्नं धर्म षोढा विकल्पयति-एतच्छब्देतरानित्यनित्यत्तित्वरहितो धर्म इत्यादि । १ एतच्छब्देतरानित्यमात्रवृत्तिति । एवंविधो घटत्वपटत्वादिः । २ नित्यमात्रवृत्तिवेति । नित्यत्वादिः । ३ एतच्छब्दैतच्छब्देतरानित्यमात्रत्तिति । एतस्मिन् शब्दे एतच्छब्देतरानित्यमात्रे च घटादौ वृत्तिर्यस्य स तथा । एवंविधश्च विश्वप्रतियोगिको घटैतच्छब्दान्योन्याभावादिः । ४ एतच्छब्दमात्रवृत्तिवेति । एतच्छब्दत्वादिः । ५ एतच्छब्दगगनव्यतिरिक्तनित्यमात्रवृत्तियेति । एतस्मिन् शब्दे गगनव्यतिरिक्ते नित्यमाने च वृत्तिर्यस्य स तथा । एवंविधश्च धर्मो विश्वप्रतियोगिक आत्मैतच्छब्दान्योन्याभावादिः । ६ एतच्छब्दगगनमात्रवृत्तिर्वेति । एतस्मिन् शब्दे गगनमात्रे च वृत्तिर्वतनं यस्यासौ तथा । एवंविधश्च धर्मो गगनशब्दसंबन्धादिः ॥ प्रथमतृतीयचतुर्थपञ्चमानां गगने विरुद्धत्वेन व्याघातमाचष्टे-प्रथमतृतीयचतुर्थेत्यादि । द्वितीयस्त्विति । द्वितीयो नित्यत्वादियद्यपि
१ गगनैकत्वनि इति छ द पुस्तकपाठः । २ देः पूर्व सप्र इति ज पुस्तकपाठः । ३ महाविद्याविडम्बनग्रन्थे तथा भुवनसुन्दरमरिकृतटीकायां नित्यत्तित्वरहि इति पाठो दृश्यते।
For Private And Personal Use Only