SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं महाविद्याप्रवर्तककारिकास्तु निपुणैर्ग्रन्थान्तरतो ज्ञातव्याः । एवमग्रेऽपि यत्र नोक्तास्तत्र स्वयमेवाभ्यूह्याः । इति सपक्षं पक्षीकृत्य प्रयुक्ता द्वाविंशतिर्महाविद्या दर्शिताः ॥ २२ ॥ अथ विपक्षं पक्षीकृत्य प्रवर्तमाना महाविद्याभेदाः। तद्यथा-शब्दोऽनित्यः इत्यत्र गगनादिर्विपक्ष इति स्थिते, (आनं० )-विपक्ष इति स्थिते । गगनं पक्षीकृत्य प्रयुज्यत इति शेषः । __(भुवन० )-अथ विपक्षं पक्षीकृत्य प्रवृत्ता महाविद्या दर्शयति-अथेत्यादि । महाविद्याभेदा दयन्ते इति शेषः । तद्यथेति तदुपन्यासार्थः । शब्दोऽनित्य इत्यत्रेति । शब्दोऽनित्यःकृतकत्वात् घटवत् , यन्नानित्यं न तत्कृतकं, यथा गगनम् इत्यत्र मूलानुमाने गगनादिर्विपक्षः इति स्थिते, गगनं पक्षीकृत्य प्रयुज्यते इत्यध्याहारः । १ गगनं एतच्छब्देतरानित्यनित्यवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादिति ॥ अत्र वक्ष्यमाणासु च घटो दृष्टान्तः । अनित्यनिष्ठाधिकरणमित्युक्ते मेयत्वादिभिरनित्यनिष्ठैरेतच्छन्दनित्यत्वेऽप्युपपद्यमानैरन्तरता स्यात् , तनिवृत्त्यर्थमेतच्छब्देतरानित्यनित्यवृत्तित्वरहितग्रहणम् । एतच्छब्देतरानित्यनित्यवृत्तित्वरहिताधिकरणमित्युक्ते नित्यत्वतद्वान्तरधर्मैर्गगननिष्ठैरेतच्छब्देऽप्युपपद्यमानैरर्थान्तरता स्यात् । तनिवृत्यर्थमनित्यनिष्ठग्रहणम् । नित्यवृत्तित्वरहितानित्यनिष्ठाधिकरणमित्युक्ते व्याघातः । न हि नित्यनिष्ठत्वरहितो नित्ये गगने च वर्तते इति संभवति । तन्निवृत्त्यर्थमेतच्छब्देतरानित्यग्रहणम् । यद्यपि गगने नित्यवृत्तित्वरहितो धर्मो व्याहतः, तथापि एतच्छब्देतरानित्यनित्ये च ये वर्तन्ते तेषु यदेतच्छब्देतरानित्यनित्यवृत्तित्वं धर्मः, तद्रहितो धर्मो गगनेऽव्याहतः । एतच्छन्देतरनित्यवृत्तित्वरहितानित्यनिष्ठाधिकरणमित्युक्तेऽपि व्यायातः । यस्य कस्यचिदपि गगनधर्मस्य एतच्छब्देतरनित्यगगननिष्ठत्वेन तद्रहितत्वानुपपत्तेः । तन्निवृत्त्यर्थमनित्यग्रहणम् । एतच्छब्देतरनित्यनिष्ठत्वरहितधर्मस्य गगने व्याहतत्वेऽपि एतच्छब्देतरानित्यनिष्ठत्वरहितधर्मस्य अव्याहतत्वात् । एतच्छब्देतरानित्यनिष्ठत्वरहितानित्यनिष्ठाधिकरणमित्युक्ते चाप्रसिद्धविशेषणत्वम् । न हि एतच्छन्दानित्यत्वसिद्धेः पूर्व एतच्छब्देतरानित्यनिष्ठत्वरहितस्य अनित्यनिष्ठत्वं शक्यमधिगन्तुम् । तन्निवृत्त्यर्थं नित्यग्रहणम् । १ (आनं० ) एतच्छब्देतरानित्ये नित्ये च ये वर्तन्ते तेष्वेतच्छन्देतरानित्यनित्यवृत्तित्वं धर्मः । तद्रहितश्चासावनित्यनिष्ठश्च तस्याधिकरणमित्यर्थः । अधिकरणभित्युक्ते शब्दाधिकरणत्वं सिद्धं वार १ वान्तरगंग' इति ग पुस्तकपाठः । २ गगने वर्तते' इति ज पुस्तकपाठः । ३ शक्याधिगमम् । त इति ज पुस्तकपाठः। For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy