________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
उत्पन्न मिहामि णीलविन्नाणं । इयमणणुभूयविसया जुज्जइ नाइप्पमंगाओ ।।९।। ममाऽऽसीद् विज्ञानमित्यनेन बुद्धेः परोक्षता निरस्ता, स्वसंविदितत्वाभावापत्तेः । आत्माधिकरणोद्दशेन च बुद्धिरर्धज्ञाननिमित्ता इन्द्रियार्थलिङ्गा मनोलिङ्गा वा नेति व्यञ्जयाञ्चकः , बुद्धिज्ञानयोरभेदादिन्द्रियार्थयोर्बुद्धिव्यभिचारित्वाागपज्ज्ञानानुत्पत्तिलिङ्गत्वाच्च । निरन्तं च ज्ञानम्य ज्ञानान्तरवेद्यत्वम् , ईश्वरज्ञानस्याऽतथात्वात , प्रभापतिप्रदीपयोरिव च समानस्वभावत्वेऽपि भवत्येव प्रकाश्यतातारतम्यम् । न चोत्तरकालज्ञानेन प्रागज्ञानस्य प्रतीतिः संवेद्यते ।
धम्मा अवग्गहादी धम्मी एतेसि जो स जीवो उ । तप्पच्चखत्तगओ पच्चक्खो चेव सो अस्थि ॥१०॥ अहमितिप्रत्ययस्य भूतानालम्बनत्वाद् आत्मनः प्रत्यक्षता, अन्तर्मुखावभासकत्वाद् आत्मावलम्बनताऽहंप्रत्ययस्य । सदाऽहंप्रत्ययत आत्माग्रहणं च सकर्मत्वान प्रत्यक्षीभूतेषु भूतेषु विप्रतिपत्तिसद्भावान्नात्मप्रत्यक्षम्य बाधो विप्रतिपत्तः । न चाहं गौर इत्यादिव्यभिचार्यहंप्रत्ययसद्धावान्न गमको नायमिति, अन्येषामध्यध्यक्षाणामव्यवहर्तृत्वापत्तेः । व्यभिचारिता चास्य गुरु मे शरीरमिति भेदवत् प्रत्यक्षात् ।
पू०-भूतेहिं चेयणं कायागारादि परिणहितो। तव्भावे भावाओ मज्जंगेहिं व मयसत्ती ।।११।। सति तंमि ससंवेयणरूवे किन्नोववज्जती एत्थ । धम्मीवि भूयसमुदयमित्तो जं तो कहं अस्थि ॥१२॥ ___ आ-जइ ताव मतं धम्मो चेयण्णं कह ण अस्थि तो आया । अन्नेषऽणुमवेणं इमस्स जं धम्मिणा कज्जं ॥१३॥ कार्यत्वमिति खेयमत्र, भावप्रधाननिर्देशान । युक्तमिति त्वध्याहार्यम् ।
For Private And Personal Use Only