________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
arafafrat
६३
रमधर्मास्तिकायस्य, उभयाधारत्वाच प्रान्ते आकाशम्योपन्यास इति केचित् । अन्ये तु धर्मास्तिकायस्य प्रशस्त विचारापहकोपग्रहकारि त्वेनादौ विपर्ययात् प्राप्तस्थितिकारित्वरूपोपष्टम्भादधर्मस्य तत आकाशम्य त्वगानोपग्राहकत्वेन सामान्योपग्रहादन्त इति प्रोचुः ।
'
अथ चतुर्थमस्तिकायं निरूपयन्त आहु:-' जीवा उचओगजुया ' इति । तत्राऽजी विपुर्जीवन्ति जीविष्यन्ति चेति जीवाः - असुमन्तः । विप्रतिपद्यन्ते केचिदेतत्प्रामाण्येऽपि । यद्यप्यस्यनात्मग्रहां स्वानुभवसिद्धमप्रत्ययगोचरं तत तन्निरासायोचुः- उपयोगयुता ' इति । तत्र उपयुज्यते - सामान्यविशेषान्यतरप्राधान्येन अर्थोऽवबुद्धयते अनेनेत्युपयोगः 'व्यञ्जनान्ताद् इति पुंनाम्नि घञ ज्ञानदर्शन युगलव्याप्यो धर्मविशेषः । तथा चोपयोगो ज्ञानदर्शने चेत्यष्टधात्मनिरू पणमपि सङ्गच्छते । एष एव च चेतनाशब्दवाच्यः, लक्षणं चैष एव जीवस्य यदुदाहृतम् -' उपयोगो लक्षण 'मिति । तेन युताः - सङ्गता उपयोगयुताः । युक्तत्वं चोपयोगेन द्रव्यगुणयोः कथञ्चिद्भेदाभेदवादेनैव मङ्गतेः । यतो द्रव्यं न गुणः, न वा गुणो द्रव्यम्, न च पृथगुणाः, निर्गुणं वा द्रव्यम् । ततो भेदाभेद एव न्याय्यः । ननु च किमिति युक्तत्वपर्यन्तानुधावनमिति चेत् । परप्रत्यवबोधाय नान्यस्मै । प्रतिबोधयन्ति चानेनैवमपरान् यथा चेतना न प्रमाणविषयातीता । न च साऽन्यस्य, जीवानामेव तद्युतत्वात् । तत उपयोगापराभिधानचेतनायाः प्रत्यक्षेण जीवोऽपि प्रत्यक्षसमधिगम्यतया स्वकार्य इति । एवं चात्र जीवसिद्धिरुपयोगस्यानन्यसाधारणतया दर्शिता । तदर्थमेव चोपयोगमेव लक्षणतया स्वरूपान्तर्गतं दर्शितवन्तः पूज्याः । यथावलक्षणं तु तस्याविष्कृतमन्यत्रैवं
For Private And Personal Use Only