________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकर्विशिका
अनेन चासाधारणता प्रत्येकम्य प्रादुष्कृता परमपूज्यैः । नान्यो धर्मास्तिकायाद् गत्युपग्रहविधाता तथा स्थित्यवगाहयोरधर्माकाशा भ्यामपीति । त्रयाणामपि चैषामेकैकद्रव्यत्वमेक एव धर्मास्तिकायः । एवमधर्माकाशावपि । नन्वाख्यायि लोकालोकभेदेन द्विविधताऽऽकाशस्य, तत् किं विस्मृत्योच्यते-एक आकाशः ? इति । सत्यम् , द्विविध आख्याय्याकाशः , परं स्वभावभेदे न तद् द्वविध्यं, किन्तु औपाधिकम् । उपाधिश्च धर्माधर्मासुभृत्पुद्गलसहचारासहचारलक्षणः । ननु कथमेकद्रव्यत्वं तेषामिति चेत् । समुदितपरिणामाद् । अत एवं चैतेषां स्कन्धत्वमप्युच्यते कचित् । यत्तु स्कन्दति -शुष्यत्यपचयतः, दधाति च-पुष्यति स्वावयवोपचयत इति निरुक्तेः पुद्गलस्यैवानियतप्रदेशपरिमाणत्वात् स्कन्धता युक्ता, न तु धर्माधर्माकाशजीवानां, तेषां नियतप्रदेशपरिमाणत्वेन शोषपोषानुपपत्तरित्याह खण्डनमात्र बद्धबुद्धिः । तत्तस्य तथास्वभावमाकर्ष्यापकर्णनीयमेव सद्भिः । स्कन्देर्गत्यर्थस्य दधातेर्धारणार्थस्यापि वाचकत्वात् । गत्यर्थानां च ज्ञानप्राप्तिव्याप्त्यर्थत्वं वैयाकरणसमयसिद्धत्वमेव । व्याप्नोति धारयति चेति स्कन्ध इत्यपि व्युत्पादयितुं शक्यत्वात् । स्कन्धताव्यपदेशश्चैकद्रव्यपरिणतिमत्तया एकद्रव्यत्वज्ञापनाय । कथमन्यथा असङ्ख्योऽसङ्ख्याऽनन्ताऽसयप्रदेशानां धर्माधर्माकाशासुभृतां स्यादसमुदितानामेकद्रव्यतेति । जीवाश्च यद्यप्यनन्ता एव, तथापि प्रतिजीवमसख्येयाः प्रदेशा इति प्रतिजीवमेकैकद्रव्यतेति नानन्तत्वेन विरुद्धता। पुद्गलानां न नियतं प्रदेशपरिमाणं, चयापचयभावादिति नैते इहाधिकृताः । वक्ष्यन्ति चानेकद्रव्यतया जीवान् पुद्गलाँश्च पूज्या: स्वयमेव पुरतः । त्रिष्वप्येतेषु मङ्गलार्थतयाऽऽदो धर्मास्तिकायम्य, तद्विपरीततयाऽनन्त
For Private And Personal Use Only