________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकििशका
गति । तत्र गमनं गतिः-जीवस्य पुद्गलस्य जीवानां पुद्गलानां घा देशान्तरप्राप्तिः । एतचं चलनक्रियामात्रोपलक्षणम् , तेन श्वासोश्वासविचारादीनामपि ग्रहे न क्षतिः । तेषामपि गत्युपष्टम्मकोपष्टभ्यत्वासायात । तथा स्थानमवस्थानं स्थिरतया स्थितिःपरिणामधिशेषः । न चाभावरूपतैवाऽस्तु, गतिनिवृत्तिरूपत्वात्तस्या मौनक्षमादिवत् । तस्याः परिणामान्तरत्वादेव । अत एवावतिbठते इत्यादिप्रयोगाः क्रियाप्राधान्येन गीयमानाः सङ्गच्छन्ते । अन्यथा त्वभावत्वात्तदसङ्गतेः । कायनिरोधादीनामुपलक्षणं चतत् । तथा अवगाहनमवगाहो-व्यापनं व्यायावस्थानं वा । पश्चाद् द्वन्द्वस्त्रयाणां गत्यादीनाम् । ते लक्षणानि लक्ष्यन्ते-अतीन्द्रिया अपि ज्ञायन्ते अमूर्तत्वे समानेऽप्यवच्छिद्यन्ते वाऽनेनेति लक्षणम् । धर्मास्तिकाथाद्या हि गत्यादिभिः तत्कार्यभूतैरेवावगम्यन्ते इति गत्यादीनां लक्षणत्वं यथार्थमेव । यद्वा-गतिस्थित्यषगाहशब्देन पदैकदेशे पदसमुदायोपचारं कृत्वा गत्युपग्रहः स्थित्युपग्रहोऽवगाहोपग्रह इत्याख्येयम् । तथा च गतिस्थित्यवगाहोपग्रहाः लक्षणंस्वरूपं येषां ते तथा । के ते ? इत्याहुः- एते' इति । समीपतरनिर्दिष्टा धर्माधर्माकाशाः । यद्वा-प्रथममध्याहार्य व्याख्येयं यथात्रयोऽस्तिकायाः धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेति सन्ति । त्रयाणामादौ पाठस्त्वार्यक्रमप्रामाण्यात् लोकविभागकारित्वावगाहदातृत्वेन परमोपग्रहकारित्वेन च । यद्वा-निष्कियत्वैकद्रव्यस्वादिनाऽल्पवक्तव्यात् सूचिकटाहन्यायेनादौ निरदेशि । कीदृशस्ते ? इत्याहुः-'गतिस्थित्यवगाहलक्षणा एते' इति । तथा च न एकस्मिन्नेव वाक्ये कथं समीपतरवाचिनैतदा निर्देश इत्याशङ्कनीयम् ।
For Private And Personal Use Only