________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
हितोपदंश मुमुक्षुसत्साधुपरिग्रह-पूर्वापरविरोधराहित्यादेः मुतरां निर्णीयमानत्वादस्य सर्वज्ञप्रणीततायाः । इतरेषां तु हिंसाद्यसत्कर्मपथोपदेश-नृशंसदुर्बुद्धिपरिग्रह-सायुधादिकलङ्काङ्किततनुप्रोक्तत्वादिना न तथात्वम् । तथात्वं तेषां कथमिति त्वन्यदेव । दृष्टष्टाविरुद्धं च वचनं प्रामाणिकमागमव्यपदेश्यमिति निष्कर्षः । यद्वा-तुशब्दोऽ. प्यर्थः । तथा च यथानुमानमत्र मानं लोकाऽनादित्वेऽस्तिकायरूपस्वात्तस्य, तथा वचनमपीत्यर्थः--
अत्र प्रथमं तावत् पञ्चास्तिकायात्मकत्वं सिसाधयिषवोऽभियुक्ता अस्तिकायपश्नकं सलक्षणं दर्शयन्ति--
धम्माधम्मागासा गइ-ठिइ-अवगाहलक्खणा गा । जीवा उवओगजुया मुत्ता पुण पुग्गला णेया ॥२॥
तत्र ‘धृत् स्थाने ' इति तौदादिको धातुः । तस्माद् धारयते -स्थापयति गतिपरिणतान् जीवपुद्गलान् गतिसाहाय्यविधाननेति ण्यन्तात् कर्तरि ' अर्तीरिस्तुसुहुम्घृशक्षिः' [३३८] इत्यादिना मे धर्म इति । तथा अस्तयः-प्रदेशाम्तेषां काय:-समूहोऽस्तिकायो, धर्मश्चासावस्तिकायश्च धर्मास्तिकाय इत्यर्थः । स्वभावतो गतिपरिणता हि जीवपुद्गलाः, ताँस्तथा प्रवृत्तौ करोति साहाय्यकमेष इति । नहि असौ बलात्कारेण गमयति, किन्तु मीनानिवोदकं केवलं विधत्ते साहाय्यमिति नाऽस्य सर्व (लोक) ब्यापित्वे सर्वदा गतिपरिणतत्वं जीवपुद्गलयोः । नहि मीना अपि प्रेर्यन्ते पानीयपूरेण, किन्तु साहाख्यमेव क्रियते तेन गद्गतो, तथाऽत्रापीति न कदाग्रह्महिलजनचचूप्रवेशोऽत्र ।
For Private And Personal Use Only