________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकवि शिका
एतेनानवबुध्य लेशतोऽप्यन्यदीयं मन्तव्यं विकलचेतना इव केवलं खण्डनमण्डनबद्धपरिकरा मिथ्यात्वमदोन्मत्तताच्छादितविवेकविलोचना आचख्युजैनमन्तव्योद्देशेन धर्मास्तिकायलक्षणं गोवि. न्दाचार्य-वाचस्पत्या-ऽऽनन्दगिर्यादयो गेहेनर्दिनो यथा, तथामन्तव्याभावादेव निरस्ताः सुदूरतरं नीतिमार्गदूरवर्तिनस्ते । यथोदाहत. वन्तः शारीरिकभाष्यवृत्ती स्वस्वविहितायामन्धितधियो द्वितीयाध्याय-द्वितीयपाद-पष्ठाधिकरणीयत्रयस्त्रिंशत्कसूत्रव्याख्यायां-सम्यक्प्रवृत्त्यनुमेयो धर्म इति गोविन्दाचार्याः, धर्मास्तिकायप्रवृत्त्यनुमेय इति वाचम्पतयः , तथा धर्मास्तिकायः सम्यक्प्रवृत्त्यनुमेयः शास्त्रीयबाह्यप्रवृत्त्यान्तरोऽपूर्वाख्यो धर्मोऽनुमीयते इति प्राहुरानन्दगिरयश्च । न चतरवबुद्धं लक्षणं जैनमताऽऽमतम् । धर्मास्तिकायानवबोधेऽपि च न न्यायानुयायिनामनुसृतो मार्गः , कथमन्यथा व्याख्यायेरनेवम् । ननु धर्मास्तिकायोऽस्तु पूर्वोक्तरूपः, परं किं मानं तत्रेति । मुख्यत आगम एवं मानम् । नहि तादृशेऽर्थे क्रमतेऽर्वाग्दृशां मतिः । अनुमीयते चानुमाने यथा-सनिमित्तता जीवपुद्गलानां गतिः, गतिवाजलनिमित्तकमीनगतिवत् । अर्थापत्तिरपि भवत्येवैतत्साधिका यतो न चेन स्याद्धर्मास्तिकायो न भवेद् दृश्यमानः स्कन्धादिभावः , अनन्तत्वेनाऽऽकाशस्य विप्रकीर्यमाणधान्यपुञ्जवद्, विप्रकीर्णताभावेन संयोगाभावात, संयोगे च सत्येव स्कन्धता, सत्यामेव च स्कन्धतायां प्रत्यक्षता । नहि भवति परमाणुरर्वाग्रहशां गोचरोऽक्ष्णः । न च जीवानामपि सम्मेलो, यदि न स्याल्लोके यत्ताकारको धर्मः । अत एवोच्यते अन्यत्र-जीवानां पुद्गलानां च गत्युपष्टम्भकारणं धर्मासिकायो, ज्ञानम्य दीपश्चक्षुष्मतो यथेत्युदित्वापि तम्हा धम्माधम्मा
For Private And Personal Use Only