________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
लोकविंशिका
Acharya Shri Kailassagarsuri Gyanmandir
کان
तद्विरुद्धत्वे हेतोर्विशेषणेऽभ्युपगम्यमाने न कविद् हेतुरविरुद्धो भवेत् । प्रसिद्धानुमानेऽपि विशेषविरुद्धादीनां सुलभत्वात् । यथाऽयं धूम दहनं साधयति, तथैतद्देशावच्छिन्नवह्नयभावमपि साधयति । नहि पूर्व धूमस्यैतद्देशावच्छिन्नेन वह्निना व्याप्तिः । एवं कालावच्छेदेन हेतोर्विरुद्धता वक्तव्या । अथ देशकालादीन् विहाय हेतोर्वह्निमात्रेण नं विरुद्धता व्याप्तेः तर्हि तद्वत् कार्यमात्रस्य बुद्धिमत्कारणपूर्वकत्वेन व्याप्तेः । यद्यपि दृष्टान्तेऽनीश्वरोऽसर्वज्ञः कृत्रिमज्ञानसम्बन्धी सशरीरः क्षित्याद्युपविष्टः कर्ता तथापि पूर्वोक्तविशेषणानां धर्मिविशेषरूपाणां व्यभिचारात् तद्विपर्ययसाधकत्वेऽपि न विरुद्धता | विरुद्धो हि हेतुः साध्यविपययकारित्वाद् भवति । न चैतेषां साध्यता, बुद्धिमत्कारणपूर्वकत्वमात्रस्यास्माद् हेतोः साध्यत्वेनेष्टत्वात् । यथा च विशेषविरुद्धादीनामदूषणत्वं तथा सिद्धान्तमभ्युपेत्य ' तद्विरोधी विरुद्ध ' इत्यत्र सूत्रे निर्णीतम् । इतश्च एतदूषणं पूर्वस्माद् हेतोः स्वसाध्यासिद्धावुत्तरेण पूर्वसिद्धस्यैव साध्यस्य किं विशेषः साध्यते ? उत पूर्वहेतोः स्वसाध्यप्रतिबन्धः क्रियते ? । न तावत् पूर्वी विकल्पः, यदि नाम तत्रापरेण हेतुना विशेषाधानं कृतं किन्तु तावता पूर्वस्य हेतोः साध्यसिद्धिविघातः । यथा कृतकत्वेन शब्दस्यानित्यत्वसिद्धौ हेत्वन्तरेण गुणत्वसिद्धावपि न पूर्वस्य क्षतिः, तद्वदत्रापि । अथोत्तरो विकल्प:, तथापि स्वसाध्यसिद्धिप्रतिबन्धो व्याप्त्यभावप्रदर्शनेन क्रियते, व्याप्त्यभावस्य हेतुरूपाणामन्यतमाभावेन । न च धर्मिविशेष विपर्ययोद्भावनेन कस्यचिदपि रूपस्याभावः कथ्यते । न हेतुरूपाभावासिद्धावगमकत्वम् । तत्यविशेषविरुद्धताविशेषास्तु धर्मिणः स्वरूपसिद्धाgत्तरकालं ग्रमाणान्तरप्रतिपाद्याः, न तु पूर्वहेतुबलाद
For Private And Personal Use Only