________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका लादेः प्रत्यक्षमुपलम्भः । अन्न सु चैतन्यमात्रेणोपादानाद्यधिष्ठानात् कथं प्रत्यक्षव्यापृतिः । नाप्येतद्वक्तव्यं शरीराद्यभावात् तर्हि कर्तताऽपि न युक्ता कार्यस्य, शरीरेण सह व्यभिचारदर्शनाद् । यथा स्थशरीरस्य प्रवृत्तिनिवृत्तो सर्वे चेतनः करोति, ते च कार्यभूते, न शरीरान्तरेण शरीरप्रवृत्तिलक्षणं कार्य चेतनः करोति, सेन तस्य व्यभिचारः। अथ शरीर एव दृष्टत्वात् करोतु नान्यत्र तत्र, यतः कार्य शरीरेण विना करोति इति नः साध्यं तत्स्वशरीरगतं चेति । नानेन किञ्चिदे. तदपि परावृतम् । यदाहुः एके-अचेतनस्य शरीरादेरात्मेच्छानुवर्तित्वदर्शनात्, न चाचेतनस्य तदिच्छाननुवर्तिनोऽपि प्रयत्नप्रेर्यत्वं परि. हार इति वक्तव्यम् , ईश्वरस्यापि प्रयत्नसद्भावे न काचित् क्षतिः । न च शरीराऽभावात् कथं प्रयत्न इति वक्तुं युक्तम् , शरीरान्तराsभावेऽपि शरीरस्य प्रयत्नप्रेर्यत्वदर्शनाम् तत्कर्तुः शारीराभाषादकृष्टोत्प. त्तिषु स्थावरेष्वग्रहणं, न तत्रादर्शमेन हेतोय॑मिचारः । येऽपि प्रत्यक्षानुपलम्भसाधनं कार्यकारणभावमाहुः , तेषामपि कस्यचित कार्यकारणभावस्य तत्साधनत्वे, यथा इन्द्रियाणामहतस्य च तो विना कारणत्वसिद्धिः तथा ईश्वरस्याऽपि, अतो न व्याप्त्यभावः । अत एवं न सप्रतिपक्षताऽपि, नैकस्मिन् साध्यान्विते हेतौ स्थिते तत्र द्वितीयस्यावकाशः , वस्तुनो द्वैरूप्यासम्भवात् । नाऽपि बाधः , अबुद्धिमत्कारणपूर्वकत्वस्य प्रमाणेनाग्रहणात् साध्याऽभावे हेतोरभावः स्वसाध्यब्याप्तत्वादेव सिद्धः । नाऽपि धर्म्यसिद्धता, कारणसङ्घातस्य पृथिव्यादेर्भूतग्रामस्य च. प्रमाणेन सिद्धत्वात् , तदाश्रयत्वेन हेतोयथा प्रमाणेनोपलम्भः तथा पूर्व प्रदर्शितम् । अतोऽस्मादीश्वराबगमे न तत्सिद्धौ प्रमाणाभावः । नाऽपि हेतोर्विशेषविरुद्धता,
For Private And Personal Use Only