________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका दृश्यत्वे ऽस्यदृष्टादेः सहकारिणः कार्येणेव प्रतिपत्तिः । एवमीश्वरस्य कारणत्वेऽपि तत्स्वरूपग्रहणं न प्रत्यक्षेणेति स्थितम् । ततोऽनुपलब्धिलक्षणाप्राप्तत्वात् कर्तुंरुपलभ्यमानजन्मसु स्थावरेषु हेतोर्चक्तिदर्शनात न व्याप्यभावः । यतो निश्चितविपक्षवृत्तिर्हेतुर्व्यभियारी । ननु निश्चितविपक्षवृत्तिर्यथा व्यभिचारी तथा सन्दिग्ध ध्यतिरेकोऽपि । उक्तेषु स्थावरेषु कर्बग्रहणं किं कर्मभावाद्, आहोविद् विद्यमानत्वेऽपि तस्याग्रणमनुलब्धिलक्षणप्राप्तत्वेन ? । एवं सन्दिग्धव्यतिरेकत्ये न कश्चिद् हेतुर्गमकः, धूमादेरपि संकलव्यक्त्याक्षेपेण व्याप्त्युपलम्भकाले न सर्वा वहिव्यक्तयो दृश्याः, तासु चाहश्यासु धूमव्यक्तीनां दृश्यत्वे सन्दिग्धव्यतिरेकाशङ्का न निवर्तते । यत्र वरदर्शनं तत्र किं वरदर्शनमभावाद् आहोस्विदनुपलब्धिलक्ष. प्राप्तत्वादिति न मिश्चयः, अतो धूमोऽपि सन्दिग्धव्यतिरेकित्वात नं गमकः । अथ धूमकार्य हुतभुजः, तस्य तदभावे स्वरूपानुपपत्ते रदयत्वेप्यनलस्य सद्भावकल्पना । ननु तत्कार्यमंत्रोपलभ्यमानं किमिति कारणमन्तरेण कल्प्यते ? । अथ दृष्टशक्तेः कारणम्य कल्पनाऽस्तु, मा भूत बुद्धिमतः वह चादेधूमादीन् प्रति कथं दृष्टशक्तिता प्रत्यक्षानुपलम्भोपलम्भाभ्यामिति चेत् , बुद्धिमतोऽपि ताभ्यां कारणत्वक्लप्तौं बतयादिभिस्तुल्यता, यथा वह्नयादिसामग्र्या धूमादिर्जन्यमानो दृष्टः स तामन्तरेण कदाचिदपि न भवति, स्वरूपहानिप्रसङ्गात्। तद्वत् सर्वमुत्पत्तिमत् कर्तृकर्मकरणंपूर्वकं दृष्टम् , तस्य सकृदपि तथादर्शना तजन्यतास्वभावस्य । एवं स्वभावनिश्चितौ अन्यतमाऽभावेऽपि कर्थ भावः । किश्व-अनुपलभ्यमानकर्तृकेषु स्थावरेषु कर्तुरनुपलम्भः शरीराद्यभावात , न त्वसत्त्वात् । यत्र शरीरम्य कर्तृता, तत्र कुला
For Private And Personal Use Only