________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिकर
भ्युपगम्यते तच्च प्रमाणान्तरमागमः पूर्वहेतोई त्वन्तरं च । तच्च अन्वयव्यतिरेकिपूर्वककेवलव्यतिरेकिसझं, यथा गन्धाशुपलब्ध्या तत्साधनकरणमात्रप्रसिद्धौ प्रसक्तत्प्रतिषेधे करणविशेषसिद्धिः केवलव्यतिरेकनिमित्ता, तथेहापि कार्यत्वाद् बुद्धिमत्कारणमात्रप्रसिद्धौ प्रसक्तप्रतिषेधात् कारणविशेषसिद्धिः केवलन्यलिरेकिनिमित्ता । तथाहि-कार्यत्वाद् बुद्धिमत्कारणमात्रसिद्धौ प्रसक्तानां कृत्रिमज्ञानशरीरसम्बन्धत्वादीनां धर्मा प्रमाणान्तरेण बाधोपपत्तो विशिष्टबुद्धिमत्कारणसिद्धेय॑तिरेकबलादिति केचित् । अन्ये मन्यन्ते-यत्रान्वयव्यतिरेकिष्णा हेतोर्न विशेषसिद्धिः, तत्र तत्पूर्वकात् केवलव्यतिरेकिणो विशेषसिद्धिर्भवलु, यथा प्राण्यादिषु । यत्र तु पूर्वस्माद् हेतोर्विशेषसिद्धौ तत्र न हेत्यन्तरकल्पना न्याय्या। यथा धूमस्य वह्निनान्वयव्यतिरेकसिद्धाक्त्र देशे वद्विरिति पक्षधर्मल्यबलात् प्रतिपत्तिर्नान्वयाव-यतिरेकाहा, तयोहि एतद्देशावच्छिन्नेन बद्रिनाsसम्भवात । यदि व्याप्तिकाले सकलाक्षेपेण: तद्देशस्थाप्याक्षेपः अन्यथाऽत्र व्याप्तेरसम्भवात् तथापि व्याप्तिग्रहणवेलायां सामान्यरूपतयाः तदाक्षेपो, न विशेषरूपेणेति विशेषावगमो नान्धयव्यतिरेकनिमित्तः, अपि तुः पानधर्मत्वकृतः । अत एव प्रत्युत्पन्नाकारणजन्यां स्मृतिमनुमानमाहुः । प्रत्युत्पन्नं च कारणं पक्षधर्मत्वमेव । तथा कार्यत्वादेर्बुद्धिमल्कारणमात्रेण व्याप्तिसिद्धावपि कारणविशेषप्रतिपत्तिः पक्षधर्मत्वसामर्थ्यात् । य इत्थम्भूतस्य पृथिव्यादेः कर्ता निय-- मेनाऽसौ अकृत्रिमज्ञानसम्बन्धी शरीररहितः सर्वज्ञ एक एवं यदा पक्षधर्मत्वबलाद् विशेषसिद्धिः , तदा न विशेषविरुद्धादीनामवकाशः , अन्य सामादपि विशेषसिद्धिमन्ये मन्यन्ते । तथा यथा धूम
For Private And Personal Use Only