________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोफर्विशिफा
४३
प्रतिपत्तिः, उत्पादकालानवगमात् । तत्काले च तत्र तस्य सन्निधानम् , अन्यदाऽस्य सन्निधानाभावादग्रहणम् , वनगतेषु च स्थावरेषु उपलभ्यमानजन्मसु कर्तृसद्भावे तदवगमोऽवश्यंभावी, यथोपलभ्यमान जन्मनि घटादौ । अत उपलब्धिलक्षणप्राप्तस्य कर्तुः तेष्वभावनिश्चयात् तत्र व्याप्तिमहणकाल एव कार्यत्वादेहेतोदर्शनान्न कर्तृपूर्वकत्वेन व्याप्तिः । इतश्च हमहान्यदृष्टपरिकल्पनासम्भवात् । दृष्टानां झिल्यादीनां कारणत्वत्यागोऽपस्य च कर्तुः कारणत्वकल्पना न युक्तिमती । अथ न भित्यादेः कारणत्वनिराकरणं कर्तृकल्पनायामपि, तद्भाचेऽपि तस्यापरकारणत्वकृतेः । तदसत् , यद्यस्यान्वयव्यतिरेकानुविधायि तत्तस्य कारणामतरत् कार्यम्। क्षित्यादीनां त्वन्वयव्यतिरेकावनुविधत्ते तत्राकृष्टजातवनस्पत्यादि नापरस्थ, कथम् अतो व्यतिरिक्त कारणं भवेद् । एवमपि कारणत्वकल्पनायां दोष उक्तः चैत्रस्य प्रणरोहणे इत्यादिना । तस्मात् पक्षधर्मत्वेऽपि व्याप्त्यभावादगमकत्वं हेतोः। अथ तेषां पक्षेऽन्तर्भाधान्न सैद्यभिचारः । सदसत्, तात्त्विक विपक्षत्वं कथमिच्छाकल्पितेन पक्षत्वेनापोद्यते । व्याप्तौ सिद्धाय साध्यतदभावयोरग्रहणे वादीच्छापरिकल्पितं पक्षत्वं कथ्यते सपक्षविपक्षयोहेतोः सदसवनिश्चयाट् च्याप्लिसिद्धिः । एवमपि साध्याभावे रएस्य हेतोळप्तिमहपकाले व्यभिचाराशङ्कायां निश्चये वा व्यभिचारविषयस्य एक्षेऽन्तर्भावेन गमकत्वकल्पने न कश्चिद् हेतुर्व्यभिचारी भवेन् । तस्मान्नेश्वरसिद्ध कश्चिद् हेतुरव्यभिचार्यस्ति ।
अनाहुः- नाकृष्ट जातः स्थावरादिभिर्यभिचासे व्याप्त्यभावो चा, साध्याभावे वर्तमानो हेतुर्व्यभिचारी उच्यते । सेषु तु कर्वग्रहणं न सकलकत्वाभावनिश्चयः । ननूक्तमुपलब्धिलक्षणप्राप्तत्चे कर्तुरभाव
For Private And Personal Use Only