SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir કર लोकविंशिकां विनश्यतीत्यनुमीयते । अनेन संस्थानवतोऽनुपलभ्यमानोत्पत्तेः समवाय्यसमवायिकारणविनाशाद् विनाशमाह । तथा प्रथिव्यादेः संस्थानवतोऽदृष्टजन्मनो रूपदर्शनात् नाशसम्भावना भविष्यति । सम्भाविताच्च नाशात् कार्यत्वानुमितौ कर्तृप्रतिपत्तिः । यथोक्तं न्यायविद्भिः- तत्त्वदर्शनं प्रत्यक्षतोऽनुमानतो वा कार्यत्व - विनाशित्वयोश्र समव्याप्तिकत्वादेकेनापरमनुमानमिष्टं तेन यत्राप्युभौ धर्मावित्यत्र । अतो जैमिनीयानां न कार्यत्वादेरसिद्धता । नापि चार्वाकमते सिद्धत्वे तेषां रचनावत्त्वेनावश्यंभाविनी कार्यता प्रतिपत्तिरदृष्टोत्पत्तीनामपि क्षित्यादीनाम् | अन्यथा वेदरचनाया अपि कर्त्तृदर्शनाभावात् न कार्यता । यतः तत्राप्येतावच्छक्यं वक्तुं न रचनात्वेन वेदरचनायाः कार्यत्वानुमानकर्त्तृभावाऽभावानुविधायिनी, तद्दर्शनाद् लौकिक्येव रचना तत्पूर्विकाऽस्तु माऽभूद् वैदिकी । अथ तयोर्विशेषानुपलम्भाद् लौकिकी वैदिक्यपि कर्तृपूर्विका तर्हि प्रासादादिसंस्थानवत् पृथि व्यादिसंस्थानवत्त्वस्यापि तद्रूपताऽस्तु विशेषानुपलक्षणात् । तन्न देतोरसिद्धता । मा भूदसिद्धत्वम्, तथाप्यस्मात् साध्यसिद्धिर्न युक्ता । नहि केवलात् पक्षधर्माद् व्याप्तिशून्यात साध्यावगमः । ननु किं घटादौ कर्तृकर्मकरणपूर्वकत्वेन कार्यत्वादेर्व्याप्यनवगमोऽस्त्येव घटगते कार्यत्वेऽपि विप्रतिपत्तिः तथापि न व्याप्तिः । सा हि सकलाक्षेपेण गृह्यते, अत्र तु व्याप्तिग्रहणकाल एवं केषाञ्चित् कार्याणामकतपूर्वकाणां दर्शनान्न सर्वं कार्यं कर्तपूर्वकम् यथा वनेषु वनस्पतीनाम् । अथ तत्र न कभावनिश्चयः किन्तु कर्त्रग्रहणम्, तच्च विद्यमानेऽपि कर्तरि भवतीति कथं साध्याभावे हेतोर्दर्शनं क पुनर्विद्यमानकर्तृण तद्प्रतिपत्तिः, यथा च घटादीनामनवागतोत्पत्तीनां युक्ता तत्र कर्तुर , , For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy